SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधे द्रव्ये-पुद्गलद्रव्यपर्यायविशेष पुरुषः स्त्री षण्ढश्च भवति, तद्यथा-पुवेदोदयेन स्त्रियामभिलाषरूपमैथुनसंज्ञाक्रान्तो जीवो भावपुरुषो | स्त्रीमोक्ष॥७९॥ भवति, स्त्रीवेदोदयेन पुरुषाभिलाषरूपमैथुनसंज्ञाऽऽक्रान्तो जीवो भावस्त्री भवति, एवं तृतीयवेदोदयेन उभयाभिलाषे भावनपुंसकम् । सिद्धिः 8 वेदोदयेन निर्माणनामकर्मोदययुक्तांगोपांगनामकर्मोदयवशेन श्मश्रुकूर्चशिश्नादिलिंगांकितशरीरविशिष्टो जीवो भवप्रथमसमय| मादिं कृत्वा तद्भवचरमसमयपर्यन्तं द्रव्यपुरुषो भवति, स्त्रीवेदोदयेन निर्माणनामकम्र्मोदययुक्ताङ्गोपाङ्गनामकर्मोदयेन निलोम| मुखस्तनयोन्यादिलिङ्गलक्षितशरीरयुक्तो जीवो भवप्रथमसमयमादिं कृत्वा तद्भवचरमसमयपर्यन्तं द्रव्यस्त्री भवती, नपुंसकवेदोदय-10 निर्माणनामकर्मोदययुक्तांगोपांगनामकर्मोदयेनोभयलिंगव्यतिरिक्तदेहाङ्कितो भवप्रथमसमयमादिं कृत्वा तद्भवचरमसमयपर्यन्तं | द्रव्यनपुंसकं जीवो भवति, एते द्रव्यभावभेदाः प्रायेण प्रचुरवृत्या देवनारकेषु भोगभूमिजसर्वतिर्यग्मनुष्येषु च द्रव्यभावाभ्यां | समवेदोदयाङ्किता भवन्ति, क्वचित् कर्मभूमिमनुष्यतिर्यग्गतिद्वये विषमा-विसदृशा अपि भवति, यथा-द्रव्यतः पुरुषे भावपुरुषो भावस्त्री भावनपुंसकं, द्रव्यतः स्त्रियां भावपुरुषो भावस्त्री भावनपुंसकम् , द्रव्यतो नपुंसके भावपुरुषो भावस्त्री भावनपुंसकमिति विषमत्वं-द्रव्यभावयोरनियमः कथितः, द्रव्यपुरुषस्य क्षपकश्रेण्यारूढानिवृत्तिकरणसवेदभागपर्यन्तं वेदत्रयस्य परमागमे-"सेसोदयेणवि छातहा झाणोवजुत्ताय ते उ सिझंति" इति प्रतिपादितत्वेन सम्भवात् । तत एव गोमट्टसारे आलापपद्धती मानुषीणां गु० १४ 31 ३ योनिमृदुत्वमस्थैर्य, मुग्धता क्लीवता स्तनौ । पुंस्कामितेति लिङ्गानि, सप्त स्त्रीचे प्रचक्षते ॥१॥ मेहनं खरता दाटर्य, शौडीय श्मश्रु धृष्टता ।। ॥७९॥ जास्त्रीकामितेति लिङ्गानि, सप्त पुंस्त्वे प्रचक्षते ॥ २॥ स्तनादिश्मश्रुकेशादिभावाभावसमन्वितम् । नपुंसकं बुधाः प्राहुर्मेहनं लघु दीपनम् ॥३॥ - - For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy