________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आभरणादि पूजा
युक्तिप्रबोधे चात्र सिंहासनाधारकणीयं, यदि तत्पूजाऽभविष्यत्तदा मानस्तंभचत्यदुमस्तूपधर्मचक्रादिवदस्याप्यभिधानमकथयिष्यत् इति,
प्रतिकूलतर्कपराहतत्वात्, पादपीठपूजाकथनं तु स्तूपादिपूजावत् महिम्नो व्यंजकं, यस्याश्रयणात् पादपीठमपि पूज्यं तर्हि स ॥७३॥
भगवान् शरीरे कथं न पूज्य इत्येवं शरीरपूजाया व्यवस्थापकमेव, न तद्धाधकं, राज्ञः पादलग्नदृष्टान्तोऽपि आसनासअसेबकविवेकेन समाधेयः, आसना हि वस्त्रपरिधापनचन्दनमाल्यालंकारादि साक्षादेव यथायोग्यं कुर्वति, न पुनदूरतः, तेषां तथाकरणे प्रत्युत राज्ञः कोपाद्, अस्तु वा समवसरणे आसनगमनाभावस्तथापि बिम्बे साक्षाद्दशायाः सर्वथा अनाचरणीयत्वाद, कथमन्यथा चैत्यं क्रियते, न हि जिनश्चैत्यवासीत्यादि प्राग्वत् । एवं शास्त्रसम्मत्या सिद्धे काश्मीराद्यर्चने रूपविपर्ययो जायमानोऽपि न सरागत्वं भगवतस्तद्भक्तस्य वा व्यंजयति , तथा वस्त्रादिसद्भावोऽपि , नाप्येतच्छोभाकारित्वं जिनमुद्राव्याघातकं, दार्पदादिपुद्गलानां तथाविधकान्त्यभावेन सुवर्णमणिमयपरिधापनिकया भगवतो यथास्थितकायकान्तेः कथं
चित्प्रतिभासेन सुतरां तदुनयनात्, न च तदैतस्याः सार्वदिकत्वप्रसंग इति, इष्टापत्तेः, न चाभरणानां निर्माल्यत्वं, "भोगविणहूँ पदव्वं निम्मल्लं" इति वचनाव, पुनः पुनस्तदारोपे न दोषः, शक्रस्तवादिस्तुतिवत्, एवमाशातनाबाहुल्यमप्यकिंचित्कर, तथाहि
आशातनानाम दुर्भावजन्या, अन्यथा गुरोः कटिबाधायां दीयमानमुष्टिप्रहारस्यापि तत्प्रसक्तेः, भगवतः पुरो गच्छतां देवानां पृष्ठिहदानवत्, ततो नेयमाशातना, अस्तु वा तथापि तत्वतः प्रतिष्ठाभिषेकात् पूर्वमेव चक्षुर्युगलश्रीवत्सतिलकादिन्यासस्यौचित्येन, अस्ते
च पुनरारोपस्य मा भूद्भगवत्प्रतिमाया अशोभनत्वमिति धिया क्रियमाणत्वेन च न दोषः, त्वरितम्लेच्छादिभये पवित्रीभवन विना मा भृत् प्रतिमाभङ्ग इत्याशयेन क्रियमाणधरणापह्नवतादृशास्थाननिक्षेपादिवत्, यस्तु स्नात्राभावः स तु करोपरिकरस्था
ACCRACTER
+-CACANCCACAAS
॥७३॥
For Private and Personal Use Only