________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आमरणादि पूजा
CRECRe
युक्तिप्रबोध का पनेऽन्तराले स्नात्राभाववन्न दोषाय, स्वांगत्वाददोषेत्रापि तुल्यता, यस्तु सङ्घट्टदोषः तत्र विवेकिनो विवेक एव प्रमाणं, यथा न ॥७४॥
संघट्टस्तथैवोपदशात्, न स्यात्तद्भयात् परिधापनिकाऽभाव एव, म्लेच्छादिभङ्गभयात् प्रतिमाऽभाववत् । षष्ठपक्षेपि उभयसिद्धस्य हेतार्गमकत्वमेव, भवतामागमेऽपि जन्मावस्थामाश्रित्य प्रागुक्ताक्षरैर्वस्वाभरणादिपूजायाः प्रतिपादनात्, द्रव्यसंग्रहाध्यात्मशाखवृत्ती उपगृहनाधिकारे-“मायाब्रह्मचारिणा पार्श्वभट्टारकप्रतिमालग्नरत्नहरणं कृत” मित्युक्तं तत् कुत्र ?, न च तत् छत्रस्थं, छत्रेऽपि वीतरागस्य नौचित्यात्, नै ग्रन्थ्यस्वरूपव्याहतेः, अथ तत्र रत्नांगीकारः चेदिष्टं नः समीहितं, छत्रसिंहासनादिपरिकरे मणीनां स्पष्टोपलम्भाव, प्रतिमायां तदनङ्गीकारो वृथव, यदुक्तं भक्तामरस्तोत्रे "सिंहासने मणिमयूखशिखाविचित्रे" इति, अत एव तपस उद्यापने भूषणाची भवन्मते युक्तिमता, पूज्यपादाः श्रीउमास्वातिवाचकाः पूजाप्रकरणेऽप्याहुः,-"स्नात्रं विलेपनविभूषणपुष्पवासधूपप्रदीपफलतन्दुलपत्रपूर्गः । नैवेद्यवारिवसनैः प्रवरातपत्रवादित्रगीतनटनस्तुतिकोशवृद्धथा ॥१॥"अत एवास्मत्पाक्षिकप्रमाणीकृतागमे पुष्पार्चया कुमारपालनृपादयः सप्तदशभेदपूजारचने दुपदात्मजाप्रमुखा बोधि प्राप्ता अनेके श्रूयन्ते, पूजाविवरणं जीवाभिगमराजप्रश्नीयोपांगादिपु प्रसिद्धं, परं प्रक्रान्तमतवतां तदश्रद्धानानात्र तद्विस्तरः, यदपि चामुण्डादिदेवप्रतिमासाम्यं तदपि नकिश्चिद्, यतस्तस्यां क्रूरत्वसायुधत्वादिकृतो भेदो महीयान् , अन्यथा चामुण्डादिप्रतिमापि हस्तपादाद्यवयवबती प्रतिमाऽऽर्हत्यपि तथेति न भेदमर्हति, न च राज्यावस्था भगवतः स्वीक्रियते तहि सायुधत्वं किं नाविभाव्यत इति वाच्यं यथायोग्यतयैव तद्भक्तिकरणौचित्यात्, अन्यथा छत्रसिंहासनादिराज्यचिह्नस्वीकारे तवापि सायुधत्वकरणप्रसंग इति, यदपि ध्यानाधिरूढयोगीन्द्रप्रतिविम्बेऽनलंकारत्वं प्रत्यपादि तदपि भगवतोर्हतः प्रतिबिम्बे छत्रसिंहासनादिपारमैश्वर्यव्यञ्जनेन कृतोत्तरीमति, प्रयोगश्चात्र-मोक्षार्थिना श्राद्धेन
KA4
॥ ७४॥
(
For Private and Personal Use Only