________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे ॥६७॥
**4%
लंकार
AF
-
क्रियते इति, यत्तु बाणारसीयमते भगवच्छरीरे काश्मीरपूजादरप्यनंगीकरणं तत्रैवं द्रष्टव्य-कथं त्वया सिंहासनाची क्रियते स्नात्रं वखावा?, श्रामण्यावस्थायां तदभावात् , कैवल्यावस्थायां च भगवतः सिंहासनात् सार्द्धहस्तत्रयाद् दुरत एवाशातनामयाल्लोकस्थितेः, अथ
भूषणान जन्मावस्थामाश्रित्य स्नात्रं, किन्तु प्राकाले सुवर्णमणिमयाचासद्भावाद् अधुना तु कालानुभावाद्दापदप्रतिमास्तासां शुद्धिकरणाय स्नात्रमिति चेत्, न, दार्षदप्रतिमायाः काष्ठमय्याश्च प्रागपि सद्भावात् , कैवल्यावस्थाया एव केवलं पूज्यत्वे स्वीक्रियमाणे कथं
सिद्धिः बलिढोकनादीत्यादि प्राग्वत् , ततः श्रामण्यावस्थामाश्रित्य यथा ध्यानं पूजा च तथा जन्मावस्थामाश्रित्यापि तत्पूजाध्यानाद्या| वश्यकमेवेष्टव्यम् , अत एव पञ्चामृतपूजा सुविचारेति । एवं पञ्चमपक्षाऽपि दक्ष एव, भगवबिम्बे स्वयं शोभनत्वाननुभवात् , |साक्षान्मूर्तेस्तु शोभनत्वं तदतिशयसद्भावात् , एकीभावे वाग्भटे च साक्षान्मूर्तेरेव व्याख्यानं, अन्यथा 'अनध्ययनविद्वांस' इति विशेषणं दुर्घटं स्याद् , यदि च स्वयं सुभगत्वमास्थाय वस्त्राभरणान्तरायस्तथा देहनमल्यमास्थाय स्नात्राभावोऽपि प्रसज्यते, न | चेष्टापत्तिः, त्वत्प्राचा तदभ्युपगमात्, यदाह बोधप्राभृतवृत्तौ श्रुतसागरसूरिः-'पाषाणादिघटितस्य जिनविम्बस्य पञ्चामृतैः | स्नपनं अष्टविधैः पूजाद्रव्यश्च पूजनं करु' इति, 'वपुरेवे' त्यादावपि प्रसन्नतया वीतरागद्वेपत्वं व्यंग, नतु पूजाद्यभावे स्वयंशोभन-1 | त्वं, अस्तु वा स्वयंशोभनत्वं तथा साक्षाचेऽर्हतस्तादूप्ये सत्यपि प्रातिहार्यादीनां विशेषशोभाकारित्वमिव परिधापनिकाया अपि || तथात्वेऽदुष्टत्वात् , यदाहुः श्रीमानतुंगगुरुचरणाः-'कुन्दावदातचलचामरचारुशोभ, विभ्राजते तव वपुः कलधौतकान्तम्' इति,|x/॥६७।।
१ इदं उत्तरं तु बाणारसीयं प्रत्येव, प्राच्याशाम्बरमते पूजार्थ प्रत्यासनगमनांगीकारात्
%
*
ॐ
For Private and Personal Use Only