SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधे ॥६४॥ वखा भूषणा लंकारसिद्धिः पनिकामक्तेदानसम्भवस्य प्रागेव निरस्तत्वात् , 'अविलिप्तसुगन्धिस्त्वमविभूषितसुन्दरः । भक्तैरभ्यचितोऽस्माभिभूषणः सानुलेपनैः ।।१॥" इत्यादिपुराणे १४ पर्वणि, यदपि विवाहदशासाम्यं तदपि न, तस्य रागकारणत्वेन भगवतो वीतरागस्य तदनौचित्यात् , तथा चोक्तम्- 'वदनकमलमंकः कामिनीसंगशून्य' इति, न च तथा परिधापनिका, तस्याः सुदृष्टीनां बोधसाधनत्वात् । तुर्यपक्षेऽपि भगवतो हि बाल्यावस्थामाश्रित्य स्नात्रकरणवत् काश्मीरपूजाविलेपनपुष्पारोपणवस्त्रालंकारादिपरिधापनं युक्तियुक्तमेव प्रतिभाति, त्वन्मतेऽपि पंचकल्याणकपूजाविधानस्य सिद्धत्वात् , अत एव 'स्नातस्याप्रतिमस्य मेरुशिखरे शच्या विभोः | शेशवे' इति जन्मकल्याणकस्तुतिरपि उभयनये सम्मता, 'यस्यावतारे सति पत्र्यधिष्ण्ये, ववप रत्नानि हरेनिंदेशात । धान्याधिपः खानवमासपूर्व, पद्मप्रभ तं प्रणमामि साधुम् ॥११॥' इत्यवतारस्तवः, 'इन्द्रादिभिः क्षीरसमुद्रतोयैः, संस्नापितो मेरुगिरौ जिनेद्रः। यः कामजेता जनसौख्यकारी, तं शुद्धभावादजितं नमामि ॥२॥' इति जन्मस्तवः 'गुप्तित्रयं पंच महाव्रतानि, पंचोपदिष्टाः समितीश्च येन । बभार यो द्वादशधा तपांसि, तं पुष्पदन्तं प्रणमामि देवम् ।।१३।। इति दीक्षास्तवः, 'मत्प्रातिहार्यातिशयप्रपत्रो, गुणप्रवीणो हतसंगदोपः । यो लोकमोहान्धतमःप्रदीपश्चन्द्रप्रभ तं प्रणमामि भावात् ॥ ४॥ इति ज्ञानस्तवः 'ध्यानप्रबन्धप्रभवेन | येन, निहत्य कर्मप्रकृतीः समस्ताः । मुक्तिस्वरूपा पदवी प्रपेदे, तं शम्भवं नौमि महानुभावम् ॥५॥ इति निर्वाणस्तवः, भवरोगाजितूनामगदंकारदर्शनः। निःश्रेयसधीरमणः, श्रेयांसःश्रेयसऽस्तु वः॥शा इति सिद्धस्तव इति, दशलाक्षणिकजपमालादिस्तोत्रप्र. | मुखेषु प्रतिपदं भगवतः सर्वावस्थावर्णनं दृश्यते, तर्हि किं वक्तव्यं पंचकल्याणकावस्थाराधने', तेन पंचकल्याणकपूजाकरणं युक्तं, तत्र च वखाभरणादिपूजा कार्यव, भवन्मतेऽपि नदवस्थायां तद्भणनाद, यदुक्तं जिनदासेन हरिवंशपुराणे- “अथ जाताभिषेकस्य, 1 For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy