________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ६२ ॥
युक्तिप्रबोधे क्षिप्त्वाऽष्टप्रातिहार्यविभूतिभृत् सुरासुरनरेंद्रकृत पूजोऽनया रीत्या उदारशृंगारजनितामिव कायकान्ति विभ्राणः समवसरणमध्यमध्यास्ते इति धन्योऽहं धन्याश्वामी भक्तिकृत इतिशुभध्यानसद्भावस्य सार्वजनीनत्वात् चैत्यालयादिदर्शनवत् यदपि स्त्रीप्रतिमादिष्टान्तेन सपरिग्रहत्वं दुयानकारणमिति तदपि न युक्तं जितेन्द्रियाणां सालंकारस्खीदर्शनेऽपि दुयनानुदयात्, कामुकानां निरलंकारखोगात्र मात्र दर्शनेऽपि दुर्ध्यानाच्च, यतु बोधप्राभृतोक्तं तत्तावदप्रमाणमेव प्रामाण्येऽपि तस्य वस्त्राभरणपूजाया अनिषेधात् निग्रन्थाचतुर्विंशतिवाद्याभ्यन्तरपरिग्रहरहिता इति परिग्रहस्य च इच्छाजन्यत्वात् तस्या अचेतनायां प्रतिमायामभावादेव, वीतरागा च गगरहितभावेञ्वतारिता, न तु लक्ष्मीनारायणादिमृत्तिंवत्सरांगा इत्यर्थस्यैव योग्यत्वं योधप्राभृतवृत्ती "जं चरई" इति गाथायां निर्ग्रन्यशब्दस्य द्वारगाथायां श्रुतसागरसूरिणा तथैव व्याख्यातत्वात्, अत एव गौतमोऽपि साक्षाद्भावाद्वर्णनेनैव प्रामाण्यम् अन्यथाऽननुभावात् निराभरणभासुरत्वं प्रतिमासु प्रत्यक्षपराहतमेव, योऽपि परिधापनिकाभावे शुभध्यानोत्पादस्तत्रापि मानसपरिधापनिकारोपजन्यत्वमेवेति नाव्यतिरेकित्वं कथमन्यथा तवापि दार्षदादिप्रतिमायां दिवाकरसहस्रभासुरपरमौदारिकशरीरस्य भगवतो ध्यानं संगच्छत तत्र तथाविधकान्त्यभावेऽपि मानस एव तदारोप इत्येवं न्याय्यत्वात् तत एव समयसारे अमृतचन्द्रः 'कान्त्येव स्नपयन्ति ये दश दिशो धाम्ना निरुंधन्ति ये, धामोद्दाममहस्विना जनमनो मुष्णन्ति रूपेण ये । दिव्येन ध्वनिना सुखं श्रवणयोः साक्षात् क्षरन्तोऽमृतं वन्द्यास्तेऽष्टसहस्रलक्षणवरास्तीर्थेश्वराः सूरयः ॥ १ ॥ द्वितीयविकल्पेऽपि सर्वज्ञानामचेलकत्वं नास्मन्नये सम्मतं यदुक्तं सप्ततिशतस्थानके 'सको य लक्खमुलं सुरद्सं उवह सव्वजिणखंधे । वरिस्स वरिसमहियं स्यात्रि सेसाण तस्स दिई ||१|| एतद्वचोमूलमपि आवश्यकोक्तम्- 'सव्वेवि एगदूद्वेण निग्गया जिणवरा चउवीस "
For Private and Personal Use Only
वखाभूषणा
लंकारसिद्धिः
॥ ६२ ॥