SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बखाभूषणालंकारसिद्धिः SEREC युक्तिप्रबोधे सरागत्वं चक्रगदादिना सरोषत्वं विष्णोस्तथानापि परिधापनिकायां परिग्रहवत्वं भगवतो द्योत्यत इत्यनिष्टः प्रसंगः, तस्माद्भगवा निःस्पृहो निग्रन्थो वीतरागश्च, तद्धिम्बमपि तथव कार्यम्, तथा च प्रयोगः---जिनमतर्मोक्षार्थिना परिधापनिका न कर्तव्या, दुयान॥६१॥ हेतुत्वाद्, यदेवं तदेवं, यथा खाचित्रदर्शनमिति,एवमाशातनाहेतुत्वानर्थकत्वप्रतिविम्बताव्याघातादयोऽप्यूद्या इति।।अत्र प्रतिविधीयते निष्परिग्रहैतब वीतरागप्रतिमायाः शुभध्यानहेतुरित्यायुक्तंयत् तदयुक्तं, यतस्तदभावेऽपि तथाविसिंहासनचामरावलिवीज्यमानोकापरिधृतच्छत्रत्रितय पृष्ठस्थभास्वद्भामण्डलविराजितभगवन्मूतों साक्षाद्रूपे च तदीक्षकाणां तध्यानवतां भूयो भविनां शुभध्या नोदयात, त्वदंगीकृतजिनमूर्तेः पुरो विविधपुष्पगन्धाक्षतनैवेद्यादिसपरिग्रहस्वरूपेणापि तथात्वाच्च, नच तत्रापरिग्रहत्वं, नृपादीनां पुरःपार्श्वस्थवस्तुभिरिव भगवन्मूोस्तद्वस्तुना तत्प्रसंगस्य दुर्निवारत्वात, न च पुनः परिग्रहे स्वांगसन्निधानत्वस्यैव हेतुत्वं, स्वयं नग्नावस्थायामपि नृपादीनां सपरिग्रहत्वात् , अथ तत्र इच्छावशादस्ति तद् भगवनमूर्तेस्तु तदभावात्कथं मपरिग्रहत्वमिति चेचिरं जीव, परिधापनिकायामप्यस्य तुल्यत्वात, एवमुच्चैस्तरगवाक्षजालिकाकपिशीर्षविराजद्वपत्रयादिविभवचंत्यालयादिनापि यदि न परिग्रहवचं तर्हि कथमंगपूजामात्रेणत्यपि प्रतिपादनीय, यदुक्तमभियुक्तः श्रीमानतुंगसूरिभिः- 'इत्थं यथा तब |विभूतिरभृज्जिनेन्द्रे' ति, तथा 'श्रीमतसुरासुरे' त्यादि, स्तोत्रेपि त्वदीय- 'तं तार्थनाथमधिगम्य विनम्य मृना, समातिहार्यविभवादिपरीतमूर्ति मित्यादि, किच-निष्परिग्रहायामपि भवदंगीकृतजिनमृत्ती दृष्टायां म्लेच्छादीनामभव्यानांच कथं न शुभध्यानसम्भवः?, अथ तत्र द्रव्यवैगुण्यान तदुत्पाद इति चेनहि परिधापनिकायोमपि भवादृशां केषांचिंदेव शुभध्याना| सम्भवो द्रव्यवैगुण्यादेव मन्तव्यः, भूयसामन्येषां परिधापनिकादर्शने श्रीमान् परमदेवो वीतरागोऽपारसंसारकारण घातिकर्म % A Ackmat 4 -% . For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy