________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपकर
णानां
G
स्थापना
युक्तिप्रबोध है मयूरपिच्छासन्निधाने मृदुवस्त्रेण कदाचित्तथा क्रियते सा निक्षेपणासमितिर्भवतीति, मुखवखं विना भाषायां न तत्समितिरपि,
एवं चोपकरणाभाव लोकानुवृत्तिः धमस्तथा लज्जा ब्रह्मव्रतरक्षा वा सयानं च न स्यात् , अथ त्यक्तसर्वसंगानां साधूनां लोका॥५१॥
नुवृत्या लज्जया वा किं कार्य?, प्रत्युत तयोः परहरणीयत्वादिति चेद् ननु पापोपादानहेतूनामेव लोकानुवृत्त्यादीनां परिहर्त्तव्यत्वात्, न पुनः संयमहेतूनां, तेषामुपादानोपदेशात्, यदुक्तं दशकालिके-'लज्जा दया संजम बंभचरं, कल्लाणभागिस्स विसोहिठाणं । जे मे गुरू सययमणुसासयंति, तेऽहं गुरुं सययं पूययामि ॥शा' लज्जासंपण्णा इति भगवत्याम् , कथमन्यथा भवतोऽपि भोजन| समय एव नाग्न्यं, न पुनः सदा तदादर इति, एवं निःस्पृहत्वं ब्रह्म व्रतधर्य वा नाग्न्येन ज्ञाप्यते इत्यपि न चिन्त्य, धर्मोपकरणे स्पृहाया बतघातिन्या अभावात्, धर्मपालनाथमेव धृतत्वावखादेः, तथा च वाचकः श्रीअश्वसेनः-मोक्षाय धर्मसिद्ध्यर्थ, शरीर धार्यते यथा । शरीरधारणार्थ च, भक्ष्यग्रहणमिष्यते ॥ १॥ तथैवोपग्रहााय. पात्रं चीवरमिष्यते। जिनरूपग्रहः साधोरिष्यते न परिग्रहः ॥ २॥ ब्रह्मव्रतधैर्य तु मुनीनां स्वतः सिद्धमेव, किं नाग्न्यमात्रेण बाह्याडम्बररूपेण ?, यदाह प्राभूतकारः-भावेण| होइ णग्गो बाहिरलिंगेण किं च नग्गेण? । कम्मपयडीण नियरं णासह भावे ण दव्वेणं ॥१॥' ति, एवं सत्यपि चैदाग्रहः तर्हि स्त्रिया
सहकत्र शयने विशेषतो ब्रह्मवतख्यापनात् तदपि कार्य स्यात्, अथ वस्त्रस्य संयमसहकारित्वमुक्तं तन्न युक्तं, तदभावपि जिनक|ल्पादिषु चारित्रप्रतिपत्तेरिति चेत्, न, भरतादेराहारं विना श्रामण्येन तस्याप्यसहकारित्वप्रसंगात्, किश्च-आशाम्बरनये ब्रह्मचारिणः के ?, पञ्चमगुणस्थानिनो देशविरता एवेति चेत् , किममी मुनितुल्यास्तदन्ये वा?, नाद्यो मुनितुल्यत्वे तेषामपि वस्त्राभावानुषंगात, न द्वितीयः, तेषां पिच्छिकाकमण्डलुप्रभृतेमुनिलिंगस्यालिंगत्वापाताद् , अन्यत्रापि तद्वृत्तः, अपिच-यद्यमी श्राद्धास्तदा व्रताच
REAKXESAMREKARAN
CACICCRECRUARY
॥५१
For Private and Personal Use Only