________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे
उपकरणा
॥४७॥
स्थापना
RRIORAKARRORS
दुष्टजनेभ्यः पवनपावकपानीयादिभ्यश्चानेकधा शरीरहेतुकमयसम्भवात्तस्यापि त्यागयोगात् , तथा भोजनेऽप्यजीर्णादिभयं सम्भवत्येवेति तदपि परिहार्य स्यात् , अथ तादृगजीर्णहेतुं भोजनं न करोत्येवोति चेदत्रापि तादृक्चौरग्राह्यचेलस्याननुन्नानाद, मन्मतेऽनन्यभोगं त्वन्मतेऽसंयतजनरप्रार्थनीयं वस्त्रं धायेमित्यागमात् , साम्प्रतीनव्यवहारेण बहुमूल्यवस्त्रपरिभोगो यद्यपि मुनीनां दृश्यते तथाप्यपवादस्यापि मार्गत्वात् यावन्त उत्सर्गास्तावन्तः अपवादा इत्यागमोक्त्या यथालाभं परिभोगकर्तृणां तेषां वसतिस्थानस्यापि राजयोगस्य तथा कुत्रिकापणलब्धदीक्षासामायिकरजोहरणपतद्हादेः रत्नकम्बलादेर्वा परिभोगवनैकान्तेन मुनित्वव्याघातः, तथा सति केवल श्राद्धरेव न तीर्थ, 'न विणा तिथं निगंथेहिन्ति प्रवचनात् , तीर्थच्छेदे गौरवं सेसकालं अववाओत्ति सिद्धान्तः, तथा च प्राप्तौ न हर्षस्तव्यपगमे न विषाद इत्याशयवतां मुनित्वं श्रद्धेयमेव, न चैतादृशाः सम्प्रति न सन्त्येवेति वाच्यं, परचेतोवृत्तीनामलक्ष्यत्वात्, दृश्यतेऽपि च कामक्रोधादिषु विचित्रोऽध्यवसायो जनानां, तद्वल्लोभेऽपीति पश्यतां सर्व नाट्यं ५। न षष्ठः, वस्त्रापहारिणि क्रोधोत्पत्तिवत् कुत्सिताहारदातरि स्थाने सत्यपि तददातरि तन्निमित्तकविरोधकारािण नग्नतानिमित्तकोपने प्रहारादिकारकेऽपि क्रोधोत्पत्तिराहारस्थानशरीरहेतुरस्त्येव, तथा च तत्त्यागोऽपि स्यान्न्याय्यः, एवं पुस्तकापहारेऽपि योज्यं, यतीनां | क्रोधाद्यकरणे त्वत्रापि तुल्यता ६। न सप्तमः, संरक्षणानुबन्धिरौद्रध्यानस्य यथा वस्त्रेऽवश्यंभावोऽविनाभावाल्लोके समुपलभ्यस्तथा 8 | देहादिष्वपि ज्वलज्ज्वलनमलिम्लुचश्वापदाहिकण्टकविषादिभ्यः संरक्षणानुबन्धस्यावश्यंभावोऽपि तनिमित्तमेव, वस्त्रादिसंरक्षणान्मुनीनां यदि शरीरे तदभावस्तर्हि कथं वस्त्रपात्रादिषु तद्भावः?, संयमार्थ यथाऽऽहारादिना तत्परिपालन तथा वस्त्रस्यापीति प्रसिद्धेः प्रत्युत शुभध्यानहेतुत्वाच्च. यदत्र वाचकवाचः- 'सम्यक्त्वज्ञानशीलानि, तपश्चेतीह सिद्धये । तेषामुपग्रहार्थाय, स्मृतं चीवरधारणम्
R+CARROTEST6%
॥४७॥
For Private and Personal Use Only