________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे ४ शरीरशोभाजनकत्वेन तत्कारित्वाद्वनवासेऽपि क्वचन पुष्पादिसौरभ्याद् एकान्ततया वा तुर्यव्रतविधातसम्भवाच्च, अथ तादृग्देहशोभाजनकं मुनिर्नाभ्यवहरति, न पुष्पवाटिकादिषु वसतीति चेदत्रापि समः समाधिः, जीर्णकुत्सितश्वेतत्वाद्युपलक्षितस्यैव ॥ ४६ ॥ चीवरस्यानुज्ञानात्, यदागमः परिसुद्धजुण्णकुत्थियथोवानिययण्णभोग भोगेहिं । मुणिणो मुच्छारहिया संतहि अचेलया हुति ॥ १॥' | एवं स्त्रीपश्वादिविविक्त एव वासो मुनीनामनुज्ञात इति, प्रत्युत नग्नत्वे विशिष्टस्त्रीणां दर्शनेन तासामात्मनश्च ब्रह्मव्रतविघात - एवेति २ । न तृतीयः, आहारस्यापि कृमिगण्डूपदाद्युत्पत्तिहेतोस्तद्विरुद्धरसयोनिकजीवविनाशहेतोश्च त्याज्यत्वप्रसंगात, शरीरादपि चेष्टयाऽऽवश्यंभाविजीवघाताच्च, वस्त्राणां क्षालनकर्म्मादि उत्सर्गतो निषिद्धमेव प्रथमांगे- 'नो रएज्जा नो धोएज्जा' इत्यादेशाद्, अपवादेन तत्करणेऽपि प्रायश्चित्तविशुध्ध्युपदेशाच्च, प्रत्युत मुखवस्त्रिकादेरंशुकस्य मुखादिषु सम्पातिमजीवरक्षकत्वेनाद्यव्रतोपकारित्वमपि प्रत्यक्षसिद्धम्, तदुवाच वाचक:- 'सन्ति सम्पातिमाः सत्त्वाः, सूक्ष्माश्च व्यापिनोऽपरे । तेषां रक्षानिमित्तं च विज्ञेया मुखवत्रिका || १ ||' ननु श्वासेन जीवघात एव असिद्धः, आनपानवर्गणानां चागुरुलघुतया तदभावादिति चेत्, न, आनपानवगणाभ्यः कार्यरूपश्वासस्याष्टस्पर्शित्वात्तत एव तद्विघात इति प्रावचनिकवृद्धाः, यथा हि इन्द्रियपर्याप्तिरन्त मौहूर्तिकी, कार्यरूपाणीकेन्द्रियाणि गर्भवृद्धावयवसम्पत्तावेव, तद्वत्कार्यरूपस्य श्वासस्यान्यत्वादेवोपपत्तेः, श्वासरोगवत्, तथाऽनावृत्तमुखेन भाषमाणस्य मुखविवरे सहसा मक्षिकादिप्रवेशः तवाप्यध्यक्षसिद्धः, एतेन निःश्वासतो ऽसंख्यात जीवात्मक वायुकायिकविराधनापि मुखवस्त्रेण निवार्यत इति ३ । न तुर्यः, प्राग्दृषितत्वात् ४ । न पंचमः, गतवटकण्टकसर्पसिंहादिज्वरातिसारादिभ्यो भोजन भषजालाभादिभ्यो १ भगवdigit एव 'आनन्ति इति पदेन अध्यात्मक्रिया उच्छ्वसन्तीस्यनेन बाह्य क्रियेति ।
For Private and Personal Use Only
उपकरणानां
स्थापना
॥ ४६ ॥