________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे ॥४०॥
गुरुतत्त्व स्थापना
SECRUGARCACRECARRCLES
रूवसरिसो तिलतुसमित्तं न गिहइ हत्थेसु । जइ लेइ अप्पबहुयं तओ पुणो जाइ णिग्गोदं ॥१॥ तेन परिग्रहं प्रत्याख्यातवतां धम्मोपकरणमात्रमपि न रक्षणीय, व्रतभंगाद् , एकस्मिन् व्रते भग्ने परेषामपि भंगाच्चेति कथं साम्प्रतीनदृश्यमानमुनिषु निग्रन्थत्वश्रद्धा जायत इति चेत्, न, धर्मोपकरणानां पिच्छिकाकमंडलुवसतिशरीरानपानपुस्तकशिष्यादीनां तथा वस्त्रपात्रकम्बलादीनामपि परिग्रहान् , यदुक्तं दशवकालिकसूत्रे पष्ठेऽध्ययने--"जपि वत्थं व पायं वा, कंबलं पायपुंछणं । तंपि संजमलज्जट्ठा, धारेंति परिहरति य ॥१॥न सो परिग्गहो वुत्तो, नायपुत्तेण तायिणा । मुच्छा परिग्गहो वुत्तो, इय बुत्तं महेसिणा ॥२॥" श्रावकाचारेऽमृतचन्द्राचार्योक्तिरपि दिगम्बरनये-"या मूछी नामेयं विज्ञातव्यः परिग्रहो ह्येषः । मोहोदयादुदीर्णो मूर्छा तु ममत्वपरिणामः ॥ १ ॥ मूर्छालक्षणकरणात् सुघटा व्याप्तिः परिग्रहत्वस्य । सग्रन्थो मूर्छावान् विनापि किल शेषसंगेभ्यः ॥ २ ॥ यद्येवं भवति तदा परिग्रहो न खलु कोऽपि बहिरंगः। भवति नितरां यतोऽसौ धत्ते मूर्छानिमित्तत्वम् ॥ ३ ॥ एवमतिव्याप्तिः स्यात् परिग्रहस्येति चेद्भवेनैवम् । यस्मादकपायाणां कर्मग्रहणे न मृाऽस्ति ॥ ४॥" अथ कथमेतन्मुनेः पिच्छिकाकमण्डलुनी अपि न स्तो, यथाजातरूपत्वस्यैव भणनादिति चेत् न, पिच्छिकामन्तरा आदाने निक्षेपे पुस्तकादेः सूक्ष्माणामचक्षुर्गोचराणां कुन्थ्वादिजीवानामप्रमार्जनया मुनीनां हिंसाप्रसक्तेः, मुनेरन्यस्य वा ननस्य अनिर्णयान्मुनिबुद्ध्या | १परं मत्वा सर्व परिहृतमशेष श्रुतविदा, वपुः पुस्ताद्यास्ते तदपि निकटं चेदिति मतिः । ममत्वाभावे तत् सदपि न सदन्यत्र घटते, | जिनद्राज्ञाभंगो भवति च हठात् कल्मषऋषः ।। इतिपयनन्दिग्रन्थे मूर्छा परिग्रह इतितत्त्वार्थे
॥४०॥
For Private and Personal Use Only