________________
Shri Mahavir Jain Aradhana Kendra
युक्तिप्रबोधे ॥ ३९ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगन रहतु है, दोऊ अट्ठाइस मूलगुनके घरैया दोउ सरव वस्त्र त्यागी है विरागता गहतु है । थविरकलपी ते जिन के शिष्य शाखा होंहि बैठकै सभामें धर्म्मदेशना कहतु है, एकाकी सहज जिनकलपी तपस्वी घोर उदै कीम रोरसौं परीसह सहतु है ।। १ ॥ इत्याद्युक्तेर्वनवासित्वेनैव यतित्वं नान्यथेति वाच्यम्, संयतेन पापजनावासाः तथा गीतवाहनायुधादिभूमयः संक्लेशस्थानानि वर्ज्यानि, अकृत्रिमा गिरिगुहादयः कृत्रिमाः शून्यागारादयः अनात्मोद्देशानिर्वर्त्तिता निरारम्भा आवासाः सेव्या इति भावनासंग्रहे । तथा स्वयमेव वनवासित्वाऽनैयत्येनोक्तः, यदाह कवित्वं- 'जिनके सुमति जागी भोग सौं भये विरागी परसंगत्यागी जे पुरुष त्रिभुवनमें, रागादिक भावनि सौं जिनकी रहति न्यारी कबहुं मगन हूँ न रहै धामधनमें । जे सदैव आपुको विचारि सरवंग सुद्ध जिनके विकलता न व्यापै कहुं मन में, तेड़ मोखमारग के साधक कहावै जीवभावै रहा मंदिरमें भावै रहौ वन में ॥ १ ॥' अन्यत्रापि वनेऽपि दोषाः प्रभवन्ति रागिणां गृहेऽपि पंचेन्द्रियनिग्रहस्तपः । अकुत्सिते वर्त्मनि यः प्रवर्त्तते, विमुक्तरागस्य गृहं तपोवनम् || १ ||' अत एव भरतचक्रिणः स्वगृह एव केवलोत्पत्तिः प्रतीता, एवं प्रमादपराणां सरागाणामपि कथं संयमप्रतिपत्तिरित्यपि न श्रद्धेयं, 'धरम राग विकथा वचन निद्रा विषय कषाय । पंच प्रमाद दसा सहित परमादी मुनिराय ॥ १ ॥' इति । तथा - 'थविरकल्पधर कछुग सरागी' इति स्ववचनादेव, एवं च स्ववचसा किंचिद्विपयकपायभाजां यतित्वव्यवस्थापनेऽपि नेदानीं - तनयतिषु तत्प्रतिपत्तिः तेन सिद्धं नाटकग्रन्थे गुणस्थानादि द्रव्यभावक्रियास्थापनं कथनमात्रमेव, न श्रद्धाविषयमिति प्रागेवोक्तम् ॥ ३९ ॥ ननु सुनीनां परिग्रहग्रहणं वालाग्रकोटिमात्रमपि नास्ति, यतः श्रीपाक्षिकसूत्रे 'से अप्पं वा बहुं वा अणुं वा धूलं वा चित्तमंत वा अचित्तमंत वा नैव सयं परिग्गहं परिगिण्डिज्जा' इत्यादि, दिगम्बरनये सूत्रप्राभूते कुन्दकुन्दाचार्योक्तमपि - 'जहजाय
For Private and Personal Use Only
गुरुतत्वस्थापना