________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वस्थापना
मुक्तिप्रबोधे । एतादृशस्यैव स्वरूपस्य प्रतिपत्तेः किं मृगतृष्णायां जलाशया ?, किंच-देशान्तरस्थानानां मुनीनां प्रतिपत्तावपि सब ॥३८॥
तद्गुरुत्वेऽतिप्रसंगो, गृणाति धर्मोपदेशं गुरुरिति व्युत्पत्त्या यदुक्तेबोंधिलाभस्तस्यैव गुरुत्वं तचात् , न कालान्तरदेशान्तरविप्रकृष्टस्य, अपिच-अनार्यदेशेषु तीर्थकरादित्रिपाष्टिशलाकापुरुषाणां न जन्म नापि धर्म इत्यक्षरलाभः, तर्हि कुतस्तरां तत्र यतिसम्भावनापि ?, अथ अयोध्यादिआर्यक्षेत्रेषु तद्विहारः सम्भवत्येवायक्षेत्रत्वादिति चेदायातोऽसि स्वयमेव मार्ग, तत एव हेतोरेतन्मण्डलेऽपि तद्विहारस्य सिद्धिः, यदि सर्वथात्र मुन्यभाव एव प्रतिपत्तव्यस्तर्हि अयोध्यादिक्षेत्रे तथैव कालत्रयोरैक्यात् तत्र मुनेरस्तित्वेन च नास्तित्वे न किंचिनियामकं लभ्यते, अथावत्यानां प्रत्यक्षतः सपरिग्रहाणां निर्ग्रन्थत्वं कुतः श्रद्धीयत इति चेत्, निष्परिग्रहाणामेव श्रद्धीयतां, नात्रास्माकमत्याग्रहो, दृश्यन्ते च बहवो जेना यतयो निष्परिग्रहा अपि, न च धर्मोपकरणमात्रनिष्ठितमतीनां परिग्रहित्वमेवेति वाच्यम् , स्वयमेव स्वकृतग्रन्थे तदुक्तेः, यथा कवित्तबन्धसमयसारे-'पूर्वकर्मा उदै रस भुंजै, ज्ञान मगन ममता न प्रयुंजै । उरमे उदासीनता लहियै, युं बुध परिगहवंत न कहियै ॥१॥ अमृतचन्द्रोऽप्याह-'अपरिग्गहो अणिच्छो भणिदो णाणी य णेच्छइ अहम्मं । अपरिग्गहो अहम्मस्स जाणगो तेण सो होइ ॥ १॥ इच्छा परिग्रहः, तस्य परिग्रहो नास्ति यस्येच्छा नास्ति, इच्छा त्वज्ञानमयो भावः, अज्ञानमयो भावस्तु ज्ञानिनो नास्ति, ज्ञानिनो ज्ञानमय एव भावोऽस्ति, ततो ज्ञानी अज्ञानभावस्य इच्छाया अभावात् अधर्म नेच्छति, तेन ज्ञानिनोऽधर्मः परिग्रहो नास्ति, ज्ञानमयस्यैकभावस्य भावाद् धर्मः केवलः, ज्ञायक एवायं स्यात्, एवमेव चाधर्मापदपरिवर्तनेन रागद्वेषक्रोधमानमायालोभकम्मेनोकर्ममनोवचनकायश्रोत्ररसनघ्राणचक्षुःस्पर्शन| सूत्राणि षोडश व्याख्येयानि, अनया दिशाऽन्यान्यपि ऊह्यानि, न च 'थविरकलपी जिनकलपी दुविध मुनि दोऊ वनवासी दोऊ
% AAAAAA-ERA
CARROCRACHCAREER
For Private and Personal Use Only