________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kcbatrth.org
AA
युक्तिप्रबोधे है कदाचित् परिपूर्णतामपरिप्राप्नुवन्तोऽविशुद्धपुलाकसादृश्यात् पुलाकाः१नैग्रन्थ्यमुपस्थिता अखण्डव्रताः शरीरोपकरणविभूषणानुवर्तिनः है। गुरुतत्त्व
ऋद्धियशःकामाः सातगौरवमाश्रिता अविविक्तपरिवाराः संघाटकयुक्ताः छेदशवलत्वं-मलिनचारित्रत्वं तद्युक्ता बकुशाः २, स्थापना कुशीला द्विविधाः-प्रतिसेवनाकुशीलाः कषायकुशीलाच, तत्र अविविक्तपरिग्रहाः परिपूर्णमूलगुणाः कथंचिदुत्तरगुणविराधिनः प्रतिसेवनाकुशीलाः, ग्रीष्मे जंघाक्षालनादिसेवनवत् उदके दण्डरेखावत् संज्वलनमात्रतन्त्राः कषायकुशीलाः ३, ऊर्ध्व मुहूर्तादुत्पद्यमानकेवलज्ञाना निग्रन्थाः ४ केवलिनः स्नातकाः ५, एते प्रकृष्टाप्रकृष्टमध्यमचारित्रभेदे सत्यपि नैगमनयेन सामान्यग्रहात् पंचापि निग्रन्थाः, निग्रन्थशब्देन सम्यग्दर्शनं, भूषावेषायुधरहितत्वसामान्यात् सर्वे निग्रन्था” इति, "प्रतिसेवनायां पंचानां मूलगुणानां सरात्रि भोजनानां पराभियोगाच्छ्रावकायुपकारधिया बलादन्यतमं सेवमानोऽत्र पुलाकः, तथा बकुशो द्विविधः-उपकरणबकुशः शरीरवकुशश्च, तत्रोपकरणाभिष्वक्तचित्तो विविधविचित्रपरिग्रहयुक्तो बहुविशेषोपयुक्तोपकरणाकांक्षी (उपकरणवकुशः) शरीरबकुशः तत्संस्कारप्रतिकारसेवी, कषायकुशीलनिग्रन्थस्नातकानां न प्रतिसेवा, लिंगमेषां द्रव्यभावभेदाद् द्विधा, भावालगं प्रतीत्य सर्वे- पंचापि निग्रन्था |लिंगिनो, द्रव्यलिंग प्रतीत्य भाज्याः, पुलाकस्य उत्कृष्टा गतिः सहस्रारे बकुशप्रतिसेवनाकुशीलयोरारणाच्युतयोः, कषायकुशीलनिग्रन्थयोः सर्वार्थसिद्धौ, (जघन्या तु) सर्वेषामपि सौधर्मकल्पे, एषामसंख्येयानि संयमस्थानानि, स्नातकस्यैकं संयमस्थानं, निग्रन्थस्यासंख्येयानि, इति भावनासंग्रहे, कालादिवैषम्याद्भाववैषम्यस्य सार्वजनीनत्वात् इदानींतनयतीनां कतिचिद्भेदमुनि
॥३७॥ | गुणाभावेऽपि यतित्वाव्याहतेश्च, किंच- यदि दृश्यमानमुनीनां मुनित्वाभावांगीकारे तीर्थस्यैव व्यवच्छेदात् पंचमारकपयन्तं याव|च्चारित्रप्रतिपादकः सिद्धान्तोऽपि व्याकुप्येत, देशान्तरे मुनिसद्भावस्वीकारे न प्रकोपश्चेत् तत्रापि कालवैषम्यात् मुनीनां
SHASKAREE
%554
For Private and Personal Use Only