________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पनि
व्यवहारस्थापना
॥२५॥
*
-
मैथुनसंज्ञापि संज्ञामार्गणाद्वारे उक्ता गोमट्टसारे, तथा च दत्तः श्रामण्यरूपपंचमहाव्रताचरणरूपे षष्ठगुणस्थाने जलांजलिरिति, किंच- मनसोवैकृत्ये अतीचार एव जिनप्रवचने भणितो, नानाचार:- 'अदिकमणं वदिक्कमणं अदिचारो तहेब अणाचारो । एतेहिं चदुहिं पुणो सावज्जो होइ मुणिदव्वो ॥१॥ इति । दिगम्बरनये गाथा प्रतीता, अत एव श्रीमहानिशीथसूत्रे यावद्विकर्माचरणं न कुर्याल्लज्जया भयेन वा तस्य पुंसः स्त्रिया वा व्यावर्णना भणिता इति । तपोऽपि व्यावहारिकं पष्ठाष्टमादि कार्यमेव, तीर्थकृताऽप्यादृतत्वादित्युक्तं, क्रिया अपि आवश्यकादिरूपा मनसो व्यग्रत्वेऽपि कर्त्तव्या एव, मनसः स्थिरीकरणाय अभ्याससाधनत्वात्, यत उक्तम्- "जइवि पडिलेहणाए हेऊ. जियरक्खणं जिणाणा य । तहवि इमं मगमक्कडनिजंतणत्थं मुणी विति ॥१॥" किंच| यदि कायवाक्ये क्रियायां व्यावृते मनो न व्यावृतं, तथा च मनःसम्बन्धी दोपो लगति, न वाकायसम्बन्धी, तस्य च मिथ्यादुष्क|तदानैर्निवारणं, तेनैव समयसारवृत्ती- 'कृतकारितानुमननैखिकालविषयं मनोवचनकायैः । परिहृत्य कर्म सर्वं परमं नैष्कर्म्यमवलम्बे ॥१॥ यदहमकार्प यदचीकरं यत्कुर्वन्तमप्यन्यं समन्वज्ञासम् । मनसा वाचा कायेन च तन्मिथ्या मे दुष्कृतमिति ॥ २॥ एवमेकोनपंचाशद्भेदैः मिथ्यादुष्कृतदानरूपः प्रतिक्रमणकल्पः, तथा न करोमि न कारयामि न कुर्वन्तप्यन्यं समनुजानामि मनसा वाचा कायेन चेत्यवमेकोनपश्चाशद्भदैरालोचनाकल्पः, तथा न करिष्यामि न कारयिष्यामि न कुर्वन्तमप्यन्यं समनुज्ञास्यामि मनसा | वाचा कायेन चेत्येवमेकोनपश्चाशद्भेदैः प्रत्याख्यानकल्प इति कल्पत्रयमभिहितं, न चैते सर्वे भेदाः मनःसहकृता एवति नियमः, तेन मनःसम्बन्धिदोषानुषङ्गाशया प्रतिक्रमणाधकरणमेव न श्रेयः, तत्र बहुदोषानुषङ्गात्, अत उक्तम्-"अविहिकया | वरमकयं उस्सुयवयणं वयंति सव्यन्नू । जम्हा पायच्छित्तं अकए गुरुअं कए लहुयं ॥१॥" किंच-यदि सर्वथा निर्दोषत्वमेवादर
4%9A%ARSA
CA
॥२५॥
*
For Private and Personal Use Only