________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोध ५ दानस्यावश्यं भोगाभिजनकत्वाद्, अकामस्य तु सुपात्रदानान्निर्जरायाः प्रतिपादनाच्च यदागमः- 'समणोवासगस्स णं भंते ! ॥ २४ ॥ १ तहारूं समणं वा माहणं वा फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे किं लभति ?, गोयमा ! समणोवासरणं तहारूवं समणं वा जाव पडिला भेमाणे तहारूवस्स समणस्स वा समाहिं उप्पाएति, समाहिकारएणं तमेव समाहिं पडिलभेति, समणोवासरणं भंते ! तहारूवं समणं वा जाव पडिलाभेमाणे किं चयति ?, गोयमा ! जीवितं चयति, दुच्चयं चयति दुकरं करेति दुल्लभं लभेति बोहिं बुज्झति २ ततो पच्छा सिज्झति ५ जाव अंत करेति' इति श्रीभगवत्यां सप्तमशतके १ उद्देश के, समणोवासगस्स णं भंते ! तहारूवं समणं वा माहणं वा फासुएणं एसणिजेणं असणपाणखाइमसाइमेणं पडिलाभेमाणस्स किं कज्जति ?, गोयमा ! एगंतसो निज्जरा कज, नत्थि य से पावे कम्मे,' इत्यपि तत्रैव ८ शते ६ उद्देशके, अत एव धनसार्थवाहरष्टान्तेऽपि श्रूयते यदि घटिकाद्वयं भो सार्थवाह ! भगवान् दानमदास्यत्तर्हि केवलज्ञानमुदपत्स्यत इति, "अतिथिसंविभागवतं तु श्रावकाणां संवररूपं जिनैर्न्यगादि, तच्च सुपात्रदानाविनाभूतमेव, संयममविनाशयत्रततीत्यतिथिः, अथवा नास्य तिथिरस्तीत्यतिथि: अनियतकालगमनस्तस्मै संविभागो - भिक्षा १ उपकरणं २ औषधं ३ प्रतिश्रय ४ इति, निरवद्या भिक्षा देया १ धम्मोपकरणानि च सम्यग्दर्शनज्ञानचारित्रोपबृंहणानि दातव्यानि २ औषधं ग्लानाय देयं ३ प्रतिश्रयः परमधर्म्मश्रद्धया देयः ४" इति भावनासंग्रहे श्राद्धधर्माधिकारे, अनुकम्पादानाद्यपि प्रवचनप्रभावनांगत्वेन सम्यक्त्वाचाररूपत्वात्, सम्यक्त्वं तु निर्जराहेतुरेवेति न एकान्ततो व्यावहारिकदानस्य त्याज्यता, शीलमपि यदि व्यवहाररूपं ब्रह्मवतोच्चारलक्षणं मनः संकल्पजस्खलनादिदोषमुद्भाव्य व्यर्थमुदितं तदपिव्यर्थमेव, तथा सति नवमगुणस्थानकं यावन्मैथुनविरतिर्वेदोदयात् सर्वथा नास्ति, अत एव तत्र
For Private and Personal Use Only
व्यवहारस्थापना
॥ २४ ॥