SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir | व्यवहारस्थापना युक्तिप्रबोधे। णीयं तद्विना न कर्तव्यमेवेत्यागृह्यते तर्हि चतुर्दशमगुणस्थानादाक् किमपि न कर्त्तव्यं स्यात्, चारित्रसम्पन्नताया उत्तराध्य-1 ॥२६॥ नादिषु तत्रैव प्रतिपादनात, दिगम्बरनयेऽपि परमयथाख्यातचारित्रस्य तत्रैव कथनाच्च, एतदक्षराणि कवलाहारप्रस्तावे वक्ष्यन्ते, न चैतावता अविधिकरणमेवानुमतमिति प्रतिपक्षश्चिन्त्यः, “ अविहिकया वरमकय' मित्यादेरकरणनिषेधविषयत्वात्, तथा च विधिकरणे यतनीयमविधी जाते मिथ्यादुष्कृतं देयमिति, तत एव छअस्थानां यथावादितथाकारित्वं स्थानांगे सूत्रितं सामायिकछदोपस्थापनीयचारित्रवतां सातिचारत्वं च, न च अतीचारबाहुल्यदर्शनात् पंचमारके इदानीमार्यक्षेत्रमण्डले मुनीनामभाव एव प्रतिपत्तव्यः, तत्स्वीकारे श्रमणोपासकानामप्यभाव एव, सम्यक्त्वस्याप्याधिगमिकस्य दुर्लभत्वमेवेति, तीर्थलोपे गौरवात्, तेन | स्थितं-व्यवहारनयेन तद्व्यवस्थानाच्च दानशीलतपःपडावश्यकप्रत्युपेक्षणादिक्रियामुनिवैयावृत्यप्रभृति सर्व सिद्धिसौधमध्यास्ते "येपां निश्चयतः परस्पररुचेरापेक्षिकी संगति, संप्राप्य व्यवहारहारसुषमा संजायते वास्तवी । ते नित्यं परमार्थतः सहृदयास्तेप्वंगभाजां दया, ते सम्प्राप्तमहोदयाः सुकृतिनस्ते ध्वस्तमोहोदयाः॥१॥ यदापि नियतयोगाद् ज्ञापकं वस्तु सिद्ध, रविरिव समुदेति द्योतमानं तथापि । व्यवहरणनयस्तत्साधनं चापि सिद्ध, द्वयमिदमनयोस्तत् सिद्धता साध्यता च ॥ २ ॥ तदेवं सुदृष्टिभिरनेकागमयुक्त्या प्रबोध्यमानोऽपि न स्थिरीभूतो वाणारसदिासः प्रत्युत दशाश्चर्यादिश्वेतांबरागमोक्तं स्वमनीषया दृष्यन् अनेकजनान् व्युद्ग्राह्य स्वमतमेव पुपोष, दशाश्चर्यादिसमाधानमग्रे वक्ष्यते इति गाथार्थः ॥८॥ अथैवं पूर्वरङ्गे निश्चित प्रविशति प्रतीहारीअज्झत्थमत्थसवणा तस्सासंबरणएवि पडिवत्ती। पिच्छियकमंडल्लुजुए गुरूण तत्थावि से संका ।। ९ ॥ CURRC |॥२६॥ For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy