________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे
॥ २२॥
.
“संजमेणं तवसा अप्पाणं भावमाणे विहरइ" इत्यागमेऽपि “ तवनारायजुत्तेणं, भित्तूर्ण कम्मकंचुयं । मुणी विगयसंगामो, भवाओ |
व्यवहारपरिमुच्चइ ॥" इति श्रीनवमोत्तराध्ययने, न च केवलं दुष्कर्माचरणे अयमस्माकमुदयभाव इति शरणीकर्तव्यं, पुरुषकार
स्थापना वैयापत्तेः, तपःप्रभृतिपुरुषकारेणापि निर्जरायाः प्रतिपत्तेः, यदाह द्रव्यसंग्रहे नेमिचन्द्र:-"जह कालेण तवेण य भुत्तरसं कम्मपुग्गलं जेण। भावेण सडदिणेया तस्सडणं चेदि णिज्जरा दुविहा॥१॥” यस्मिन् समये तपोऽनुष्ठानादिभावनया शुद्धोपयोगं रसं | शान्तनामानं जीवोऽनुभवति सर्वकर्माविकारात् पृथग्भूतत्वात् तदा भावनिर्जरा स्यात्, तस्यां चात्मनो यथा यथा सामर्थ्य तथा | द्रव्यकम्मेपरिशाटः स्यात्-आत्मप्रदेशेभ्यो विश्लेपः स्यात् सा द्रव्यनिजरा, सा च द्विविधा-एका यथाकालनिर्जरा, या शुभाशुभक|र्मणां भोगादेव निर्जरा स्यात्, द्वितीया अविपाकनिर्जरा, या आत्मध्यानेन दुर्द्धरतपःक्लेशेन च निर्जरा स्यात्" इति तद्वृत्तिः । अथ तपोऽपि तत्तत्प्रतिबन्धककर्मव्यपाय एव प्राप्तव्यं नेतरथेति चेत्, सत्यं, परं सम्यक्त्वस्य एतदेव लिंगं प्रशम १ संवेग २ निर्वेद ३. अनुकम्पा ४ आस्तिक्य ५ रूपेषु भावेषु परिणामः, तेषामभावे तस्याप्यभावात, " कृपा १ प्रशम २ संवेग ३ दम ४ अस्ति भाव ५ वैराग । ए लच्छन जाकै हियै सप्तव्यसनको त्याग ॥१॥” इति स्वग्रन्थेऽप्युक्तं, तेन सम्यक्त्ववता दिने २ संवेगः प्रचारणीयः, अत एव सम्यक्त्वस्याविरतरूपत्वेऽपि मिथ्यात्वान्मांसाधभक्ष्याच्च विरतिरेव सहचारिणी द्रष्टव्या, न चेत् सम्यक्त्वस्याप्यनात्मलाभः, तत एव सम्यक्त्वस्य संयममार्गणायामन्तर्भावः, न च पञ्चमगुणस्थानमेव स्याद्विरतेस्तदादिष्वेव भावादिति वाच्यं, भावतस्तदविरतत्वेन अविरतत्वानपायात, यथा लौकिकानां वैष्णवादीनां अविरतत्त्वेऽपि द्रव्यतः काश्चन विरतयो दृश्यन्ते तथा सम्यक्त्ववतोऽपि द्रव्यतो विरतरुपपत्तेरिति अन्यत्र विस्तरः, तेन संवेगाभिलाषिणो व्यवहारतस्तपःकरणेऽभ्यासात्तदावरणकर्म-||
%9:3864
4
For Private and Personal Use Only