________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे
SHRI
व्यवहार स्थापना
॥२०॥
+SA
सिद्धेऽपि भावात्रौदयिकत्वं, तद्विहारकरणं व्यवहारादेव, केवलकाललब्ध्या दुर्गममेतत्, किंच-" कालो सहाब नियई पुवकयं चेव पुरिससकारो । पंचण्हं समवाओ सम्मत्तं जिणवरुद्दिढें ॥ १ ॥” इति वचनात् पंचानामपि हेतुत्वस्वीकारात्, केवलकाललन्ध्या एव कार्यजनकत्वे कालवादिमतापत्तिः, " कालः पचति भूतानि, कालः संहरते प्रजाः । कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः ॥ १॥ अत एव-"तनिसर्गादधिगमाद्वा" इति तत्वार्थसूत्रे उभयथा सम्यक्त्वप्राप्तिः, उपासकदशांगे तु- "अत्थि उहाणेत्ति वा कम्मेत्ति वा बलेत्ति वा वीरिएत्ति वा पुरिसकारपरक्कमेत्ति वा" इति पुरुषकारस्यैव प्राधान्यमाह, एतेन ये केऽपि अस्माकं भवस्थितिने पक्काऽस्ति, तस्यां पक्वायां स्वतः सदोधा भावीति, तथा--" खेत्रफरस कर्मप्रकृतिके उदै आयै विना डग भरे अंतरिक्ष जाकी चालि है" इति वदन्ति ते पराकृताः, नियतिमतापादनेन गोशालकनतापत्तेः, इति स्थितं कर्मनिर्जयो व्यवहारमन्तरा केवलकाललब्ध्या केवलेनाध्यात्मभावनेन च न भवति, यदुक्तं समयसारवृत्ती" मग्नाः कम्मेनयावलम्बनपरा ज्ञानं न जानन्ति यन्मग्ना ज्ञाननयैषिणोऽपि यदिति स्वच्छन्दमन्दोद्यमाः। विश्वस्योपरि ते तरन्ति सततं ज्ञानानी)भवन्तः स्वयं, ये कुर्वन्ति न कर्म न यान्ति च वशं जातु प्रमादस्य च ॥१।। यत्र प्रतिक्रमणमेवमिदं प्रणीतं, तत्राप्रतिक्रमणमेव सुधांकुरः स्यात् । तत् किं प्रमाद्यति जनः प्रतिपन्नबोधः, किं नोर्ध्वमूर्ध्वमधिरोहति निष्प्रमादः॥२॥" प्रमादकलितः कथं भवति शुद्धभावोऽलसः?, कषायभरगौरवादलसता प्रमादो यतः। अतः स्वरसनिर्भरे नियमिते स्वभावेऽभवन्मुनिः परमशुद्धता ब्रजति मुच्यते चाचिरात् ॥ ३॥" न च परप्रत्यायनमात्रफलस्यापि व्यवहारस्य एकांततस्त्याज्यत्वं, यतः स्थानाङ्गेऽप्युक्तम्-"पंचहि ठाणहिं केवली उदिण्णे परीसहे अहियासिअति, जावं च णं ममं अहियासेमाणस्स बहवे समणा णिग्गंथा छउमत्था उदिपणे परीसहे अद्वियासिस्संति ।” तथा प्रथमाङ्ग
||॥२०॥
For Private and Personal Use Only