________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे
व्यवहारस्थापना
॥१६॥
Kita-N-EAC
| तथा-"दसणणाणचरित्ताणि सेवियव्याणि साहुणा निच्छ । ताणि पुण जाणि तिन्निवि अप्पाणं चेव निच्छयदो॥१दर्शनज्ञानचारित्रखिभिःपरिणतत्वतः । एकोऽपि त्रिस्वभावत्वाद्, व्यवहारेण मेचकः ॥२॥" यत्तु समयसारकृता भगवतोऽहेतो देहवर्णनं तन्न निश्चयादह| द्वणनं, देहात्मनोर्मेदादिति, तदपि पुद्गलादात्मनः पार्थक्यप्रज्ञापनानयालम्बनमेव, न पुनः स्याद्वादसुन्दरं, देहात्मनोः कथंचिदेव | भेदात् , भेदाभदस्यैव प्रामाण्यात, सर्वथा भेदे ग्रन्थकृता स्वयमेवाग्रे व्याख्यास्यमानः पुद्गलपरिणामानां आत्मपरिणामानां च | निमित्तनैमित्तिकभावोऽपि दुर्घटः, यज्ञदत्तकार्मणपरिणामानां देवदत्तात्मपरिणामामानामिव अकारणत्वात्, स्वयमपि ग्रन्थप्राग्भागे
अनादिबन्धपयोयनिरूपणया क्षीरोदकवत् कम्मपुद्गलः सममेकत्वेऽपि द्रव्यस्वभावनिरूपणया शुभाशुभभावानां स्वभावेनापरिणम| नादित्येव स्याद्वादसादरतया व्याख्यातत्वाच्च, योऽप्यत्र नगरदृष्टान्तः सोऽपि न किंचिद्देहेन समं यथा भेदाभेदस्तथा नगरेण | समं तदभावात् राज्ञो देहवर्णनस्येव राजवर्णनात्, अधिष्ठात्रधिष्ठानभावेन च दशवर्णने प्रजावणनेऽश्वादिबलवर्णने कृतेऽपि राज्ञो | वर्णनं प्रमोदाय तर्हि नगरवर्णने किं वाच्यमिति विपर्ययाच्च, न चैवं देहात्मनोरक्ये आत्मनोऽनुपलब्धिः , स्याद्वादप्रतिपत्त्या तदुपलब्धावनन्तरायात्, यदुक्तं तत्रैव-"उभयनयविरोधध्वंसिनि स्यात्पदाङ्के, जिनवचसि रमन्ते ये स्वयं वान्तमोहाः । सपदि समयसारं ते परं ज्योतिरुच्चैरनवमनयपक्षाः क्षुण्णमीक्षन्त एव ॥१॥" अत एव सर्वेषां नयानां परस्परसापेक्षत्वेन वस्तुस्पर्शित्वात् प्रामाण्य, व्यवहारनयास्पर्शे तु केवलस्य निश्चयनयम्यापि अवस्तुस्पर्शित्वेनाप्रामाण्यात, न हि व्यवहारनयो न वस्तुस्पीति वक्तुं युक्तं, पर्यायाश्रयी व्यवहारनयो द्रव्याश्रयी तु निश्चय इति द्रव्यपर्याययोद्धयोरपि वस्तुरूपत्वात्, अत एव हेमसूरिपादा द्वात्रिंशिकायाम् "अपर्ययं वस्तु समस्यमानमद्रव्यमेतच्च विविच्यमानम् । आदेशभेदोदितसप्तभङ्गमदीदृशस्त्वं बुधरूपवेद्यं ।। १॥" समयसार
KAROBACASUALOREGACA
॥१६॥
-ACC
For Private and Personal Use Only