________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १७ ॥
युक्तिप्रबोधे है वृत्तिकृत् स्वयमेव ग्रन्थाग्रभागे वक्ष्यति--' इह हि व्यवहारनयः किल पर्यायाश्रितत्वात् जीवस्य पुद्गलसंयोगवशादनादिप्रसिद्धवन्धपर्यायस्य कुसुम्भरक्तस्य कार्पासिकवासस इवौपाधिकं भावमालम्ब्य उत्प्लवमानः परस्य परभावं विदधाति, तेन वर्णाद्या जीवस्य व्यवहारनयेन सन्ति, निश्चयनयस्तु द्रव्याश्रितत्वात् केवलस्य जीवस्य स्वाभाविकभावमालम्ब्य उत्प्लवमानः परस्य परभावं सर्व प्रतिषेधयति इति “ एकमप्युदयते तदनेकं, नैकमेकमिति वस्तुविमर्शः । द्रव्यपर्यायनयद्वयवेद्यः, सिद्धसाध्यविधिनैव निवेद्यः ॥ १ ॥ " न च केवलो निश्चयनयः प्रमाणमेव, अर्थक्रियाकारित्वं हि वस्तुलक्षणं, तच्च न केवले द्रव्ये, किन्तु तत्तत्कारकसन्निपातावच्छिन्नशक्तिके, स च कारकसन्निपातः पर्यायरूप एवेति प्राप्तं व्यवहारनयगोचरस्यैव वस्तुनोऽर्थक्रियाकारित्वं न निश्चयगोचरस्य केवलस्य मृदादेर्घटजनकत्वं दृष्टं, सदा घटोत्पत्तिप्रसङ्गात्, अथ कुम्भकारादिसन्निहितस्य चेदायातोऽसि स्वयंमंत्र व्यवहारमार्गम् एवं ज्ञायकस्यात्मनोऽपि ज्ञायकत्वं ज्ञेयादिसन्निहितस्यैवेत्यायातं व्यवहारस्य ग्रामाण्यं केवलं ज्ञानस्य ज्ञातुवी स्वीकारे ज्ञानाद्वैतस्य पुरुषाद्वैतस्य वा प्रसक्तेः सिद्धं निश्चयनयूगोचरस्य केवलवस्तुनोऽनर्थक्रियाकारित्वं तद्विषयत्वाच्च निधयनयस्यापि मिथ्यादृक्त्वं ततो, “ नित्यमविकारसुस्थितसर्वाङ्गमपूर्वसहजलावण्यम् । अक्षोभमिव समुद्रं जिनेन्द्ररूपं परं जयति || १||" इति व्यवहारस्तुत्याऽपि अर्हद्भगवतः स्तुतिः सिद्धा, निश्वयव्यवहारयोरुभयोरपि वस्तुगोचरत्वात्, यदि पुनर्व्यवहारं विना निश्चयप्रवृत्तिरिष्यते तर्हि - " जो इंदिए जिणित्ता णाणसहावाहियं मुणइ आयं । तं खलु जियिंदियं ते भांति जे निच्छया साहू ॥ १ ॥ " इति इयं स्तुतिरपि नैश्वयिकी न स्यात्, इन्द्रियजयस्य व्यवहारचारित्रस्वरूपत्वेन आत्मानं तदस्पर्शात् एवम् - "जियमोहस्स हु जड़या खीणो मोहो हविज्ज साहु|स्स । तइया हु खीणमोहो भण्णइ सो निच्छयविदृहिं ।। १ ।। " इत्यत्रापि क्षीणमोहत्वं व्यवहारेणैव, न पुनर्निश्चयेन, स्वयमेवाग्रे
For Private and Personal Use Only
व्यवहारस्थापना
॥ १७ ॥