________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे ॥१५॥
ऐकमत्येन व्यवहारलोपः
CAROL
अन्योऽन्यं चैवं जने प्ररूपयामासुः-अहो लोकाः! किं व्यवहारजालेन निबद्धा भवन्तो सुधाऽऽत्मानं विडंबयत, मोक्षाय केवलमात्मस्वरूपपरिचिंतनरूपं निश्चयसम्यक्त्वमाचरत, सर्वधर्मसारमुपशममाश्रयत, एता लोकप्रत्यायिकाः क्रियास्त्यजत, अध्यात्मभावनां भावयत, तद्भावनया दुष्कम्माचरणेऽपि नास्ति बन्धः, यदुक्तं समयसारे "पूर्वबद्धनिजकम्मविभागात, ज्ञानिनो यदि भवत्युपभोगः। तद्भवत्यथ सरागवियोगान्नूनमेति न परिग्रहभावम् ॥ १॥" आवश्यकेऽपि-" सम्मद्दिट्ठी जीवो जइवि हु पावं समायरइ किंचि । अप्पो सि होइ बंधो जेण न निद्धंधसं कुणइ ॥१॥" एवं च क्रमेण बाणारसीयमतप्रवृत्ती जातायां स्थाने २ व्यवस्थापनानि वक्षमाणरीत्या शास्त्रपिभिः सुदृष्टिभिः क्रियमाणानि विमृश्य तेषां प्रत्युत्तरकरणाय बाणारसीदासोऽपि नानाशास्त्राणि वाचयन् प्रमाणनयनिक्षेपाधिगममार्गाप्राप्त्या अनेकनयसंदर्भान् निरीक्ष्य रूपचन्द्रादिदिगम्बरमतीयवासनया श्वेतांबरमतं परस्परविरुद्धत्वान्न सम्यक् विचारसहं, दिगम्बरमतमेव सम्यक, इत्यादिकांक्षां प्राप्तवान्, ततः सुदृष्टीनां तेन सह मिथश्चर्चालाप एवं प्रववृते, यदुत-भो! बाणारसीदास! किमर्थं त्वमेकनयमालम्ब्य व्यवहारस्य वैफल्यं वदसि, भगवत्| श्रीवीरप्रवचने तु व्यवहारनिश्चयलक्षणं नयद्वयमपि तुल्यकक्षतया प्रतिपादितम् , यदुक्तं समयसारे कुन्दकुन्दाचार्येण-“जइ | जिणमयं पवज्जह ता मा ववहारणिच्छए मुयह । एगेण विणा छिज्जइ तित्थं अण्णेण उण तच्चं ॥१॥” इयमेव गाथा पंचवस्तुके | श्वेतांबरमतेऽपि- "जइ जिणमयं पवज्जह ता मा ववहारणिच्छए मुयह । ववहारणउच्छेए तित्थुच्छेओ हवहवस्सं ॥१॥" | यदि च अभूतार्थत्वात् व्यवहारपरिहारः स्यात् तर्हि जीवाजीवादितत्त्वोपगम एव न स्यात्, तदधिगमोपायानां प्रमाणनयनिक्षे| पानामभूतार्थत्वात्,यदाह अमृतचन्द्रः- "अथवमेकत्वेन द्योतमानस्यात्मनोऽधिगमोपायाः प्रमाणनयनिक्षपा ये ते खलु अभूतार्थाः”
SARKAROGRA*
%
॥१५॥
Ches
For Private and Personal Use Only