________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsus Gyanmandir
युक्तिप्रबोधे
व्यवहारस्य निष्फलत्वं
॥१२॥
| देरप्यमृतकुम्भत्वं साधयति, तयैव निरपराधो भवति चेतयिता, तदभावे द्रव्यप्रतिक्रमणादिरपराध एव, अतस्तृतीयभूमिकयैव शुद्धोपयोगरूपया निरपराधत्वमित्युक्तम् , तेनैवामीषां ब्राह्यक्रियाणां यथोत्तरं गुणस्थानवृद्धा परित्यागः श्रीमदर्हद्भिरुपदिष्ट इति सिद्धं व्यवहारोऽन्तर्गदुरूप इति, नैश्चयिकं पुनदर्शनं परमात्मनः कर्मपाशाद्विमोचनस्वभावस्थैर्यालम्बनरूपमभयं जीवस्वभावस्य स्वात्मन्येव प्राभृतीकरणं सुपात्ररूपं शीलं स्वरूपाचरणलक्षणं प्रकृते वैराग्यजननं तप इच्छानिरोधरूपं भावना च आत्मनो द्रव्यार्थतया नित्यत्वं पर्यायर्चययानित्यत्वं तत्स्वरूपावगमावश्यकेतरद्रव्यमयलोकस्वभावचिन्तनं चेत्यादि, प्रत्याख्यानमपि परद्रव्यस्वरूपपरित्यागरूपं, यदुवाच अमृतचन्द्रः-"सव्वे भावे जम्हा पच्चक्खाई परित्ति नाऊणं । तम्हा पच्चक्खाणं नाणं नियमा मुणेयव्वं ॥ १ ॥" जीवाजीवादिश्रद्धानं सम्यक्त्वं, तेषामधिगमो ज्ञानं, रागादिपरिहारः चारित्रं, यदवदत् कुन्दकुन्दः- “जीवादीसद्दहणं सम्मत्तं तेसिमधिनमो नाणं । रागादीपरिहरणं चरणं एसो दु मुक्खपहो ॥१॥" अयमेव मोक्षमार्गः आत्मा ज्ञानदर्शनचारित्रत्रयात्मकोऽपि निश्चयादेको न ज्ञान न दर्शनं न चारित्रं, किन्तु ज्ञायकः शुद्धः पुगलसंयोगेऽपि स्वभावं उपयोगरूपं न जिहीते, नापि पुद्गलस्तत्संयोगात् स्वरूपमुज्झति, कर्मवन्धश्चानयोः संयोगजः, स चापि स्वस्वपरिणामानां निमित्तनैमित्तिकमावेन अनादिः, सान्तश्च कनकोपलयोरिव, नास्त्यात्मनो रूपं रसो गन्धः स्पर्शश्च, एते हि पौद्गलिका गुणाः, स्वयमात्माऽपि कर्ता चित्पर्यायाणां, स्वस्वरूपं भुंक्ते अनुभवतीति भोक्ता. स्वागुरुलघुपर्यायान् पड्गुणहानिवृद्ध्या पूरयति गालयति पुद्गलः, सर्व वेत्ति जानातीति वेदः, ज्ञानात्मना वेवेष्टि च्याप्नोतीति विष्णुः, स्वस्मिन्नेव ज्ञानादिभावेन भवति स्वयम्भूः, सर्वत्रासंख्याताकाशप्रदेशक्षेत्रमानवाच्छरीरी असक्तः अमूर्नः चेतनाभ्यन्तरवर्तिम्वभावत्वाच्चान्तरात्मा इति गोमट्टसारवृत्ती, प्रतिशरीरं भिन्नो यावदेह
%ARACK
॥१२॥
For Private and Personal Use Only