________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
RSSEXR
युक्तिप्रबोधे । सोहग्गकरं दाणं आरुगकारणं परमं । दाणं भागनियाणं दाणं ठाणं गुणगणाणं ॥१॥' अत एव आर्द्रकुमारनन्दिषणादि-16व्यवहारस्य
वृत्तान्ते अस्ति तब भोगकम्मनिकाचना ततो दीक्षातः प्रतीक्षस्थति देवादिनिषेधः श्रूयते, तथा शीलमपि ब्रह्मवतोच्चाररूपं व्याव- निष्फलत्वं ॥११॥
हारिकं विफलमेव, यतो हि यावता रात्री स्वभप्रयोगे स्खलितादिदोपो मनसो वैकृत्याज्जायते तावता दूषणं लगत्येव, इतरथा *प्रातस्त्यकुस्वमदुःस्वप्नोद्देशक्रियमाणकायोत्सर्गवैयर्थ्यमेव स्यात्, यदि आत्मनो मैथुनविरतिप्रतिवन्धककम्मप्रकृतयः क्षीणा उपशांता
वा भवेयुस्तर्हि स्वमेऽपि जीवस्य तथाऽपरिणतेः सङ्कल्पोद्भवं स्खलनादि न भवेत, अस्ति च तत्प्रवृत्तिः, तथा च ज्ञायते नास्ति जीवस्य मैथुनविरतिः, तर्हि किं बाह्याटोपमात्रेणेति, तपोऽपि व्यावहारिकं षष्ठाष्टमादि आत्मज्ञानवाह्यानां बालतपःप्रायं, न मोक्ष
| फलकं, तथा समयमारवचसा प्रागव दृढीकृतं, अन्यत्रापि मनःकालुप्यहेतुभृतयो रागद्वेषयोः सद्भावे तद्विफलं स्पष्टमेव निष्टङ्कयते, 18| यत उपदेशमालायाम्- 'फरुसवयणेण दिणतवं अहिक्खिवंतो य हणइ मासतवं । वरिसतवं सबमाणो हणइ हणतो य सामन्नं
॥१॥" अत एव बाहुबलेवर्षे यावन्मानवत्वेन दीक्षापि न फलवती, एवं कण्डरीकोऽपि दृष्टान्तीकार्यः, रागद्वेषयोरसद्भावे तु | सुतरां विफलं, अत एवोक्तम्-" रागद्वेषी यदि स्यातां, तपसा किं प्रयोजनम् । तावेव यदि न स्यातां, तपसा किं प्रयोजनम् ।।१।।" दृष्टान्ता अप्यत्र मरुदेवीभरतचक्रिकूरगडुकादीनां बहवो दृश्यन्ते, एतेन श्राद्धक्रियाः साधुक्रियाश्चावश्यकादिरूपाः सर्वा विफला एव, परमार्थबाह्यानां व्रतस्यापि बालवतत्वेनोक्तत्वात् तन्मूलकत्वात्तासाम्, अत एव श्रीपञ्चमाङ्गेऽपि-" इमे जीवा इमे अजीवा | इमे असा इमे स्थावराश्चेति परिज्ञानशून्यानां दुष्प्रत्याख्यातं भवतीति सुव्यक्तमुक्तं, समयसारेऽपि-"प्रतिक्रमणादिरूपा तृतीयभू. मिस्तु शुद्धात्ममिद्धिरूपत्वेन सर्वापराधविपदोषाणां सर्वकषत्वात् साक्षात् स्वयममृतकुम्भो भवति" व्यवहारेण द्रव्यप्रतिक्रमणा
TOCREECREGROCERESCRICER
EALRe
For Private and Personal Use Only