________________
Shri Mahavir Jain Aradhana Kendra
युक्तिप्रबोधे
॥ ५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सीयानां तु श्वेताम्बरमतापेक्षया सर्वसिद्धान्तप्रतिपादितस्त्री मोक्ष केवलिकवलाहारादिकमश्रद्दधतां दिगम्बरनयापेक्षयाऽपि पुराणाद्युक्तपिच्छिकाकमण्डलुप्रमुखाणामनङ्गीकरणेन कथं सम्यक्त्वं श्रद्धेयं १, यज्ञब्रह्मचारिपिच्छिका कमण्डलुप्रभृतिपरिभाषकत्वेन आर्थवाक्यं विना पौरुषवाक्यस्यैव केवलं प्रमाणकारकत्वेन सर्वविसंवादिनिह्नवरूपत्वेन च दिगम्बरनयस्यापि अस्मत्प्राचीनाचार्यैः प्रथमगुणस्थानित्वं निरणायि, तर्हि तदनुगत श्रद्धावतां बाणारसीयानां तत्रे किं वक्तव्यमिति, " शठमठहठबुद्धिर्मोहमालिन्यजन्या, पदमपि यदि चित्ते संनिधत्ते कथंचिद् । भगवदभिहितार्थान्मोक्षसार्थाद्वियोज्यानुभव विभगभाजं पातयेत् ||१||" मिथ्याद्दशां तु | दर्शनमुपदेशश्रवणालापसंलापादिकं च संसारवृद्धिहेतुरेवेति सर्वत्र सिद्धम् ।। अत्र च 'सुजना' इत्यनेन अधिकारिणः सूचिताः, तेषामेवैतच्छास्त्रेऽत्याहतत्वात् यद्यप्यत्र कस्यचिदरोचकिता स्यात्तथापि परार्थोद्यतस्य वक्तुर्धर्म एव, यदागमः "रूसओ वा परो मावा, विसं वा परियडओ । भासियन्या हिआ भासा, सपक्खगुणकारिया ॥ १ ॥" बाचका अप्याहु:-" न भवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्धया वक्तुस्त्वेकान्ततो भवति ॥ १॥ बाणार सियस्स मयभेय ' मित्यनेन अभिधेयं चोक्तं, भेदशब्दः प्रकारार्थे, मतप्रकारं वक्ष्ये तस्याभिप्रायप्ररूपणामित्यर्थः, यद्वा तस्य मतस्य भेदं प्रतिविधानं उत्तरपक्षं चेति, प्रयोजनं च द्वेधा- कर्तुः श्रोतु, तत्र श्रोतुः प्रयोजनं प्रागुक्तं, कत्तुः प्रयोजनं सम्यक्त्यस्थिरीकरणं पारंपर्येण मोक्ष, न चात्र रागद्वेषका लुप्यं चिन्त्यूं, परपरिहानं विना धर्मस्यैव स्वरूपाप्रतिष्ठानात्, धम्र्मोपदेशस्य मोक्षसाधनत्वात् शास्त्राभिधेययोः सम्बन्धस्त्वर्थाद्गम्य इति गाथार्थः ॥ १ ॥ अथ द्रव्य क्षेत्र कालभावैर्भतहतूनाह
सिरिआगराइनयरे सड्डो खरयरगणस्स संजाओ । सिरिमालिकले बणिओ वाणारसिदासनामेणं ॥ २ ॥
For Private and Personal Use Only
अभिधे
यादि
॥ ५ ॥