________________
Shri Mahavir Jain Aradhana Kendra
युक्तिप्रबोधे
॥१६४॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुने । भावेण होइ नग्गो मिच्छताई य दोस चइऊण । पच्छा दव्वेण मुणी पयडर लिंग जिणाणाए ॥१॥" अस्या अप्यर्थः - 'भावेन' परमधर्म्मानुरागलक्षणजिनसम्यक्त्वेन 'नग्नः' वस्त्रादिपरिग्रहरहितो मिथ्यात्वादिआश्रवद्वाराणि त्यक्त्वा पश्चाद् द्रव्येण 'लिंग' जिनमुद्रा प्रकटयति जिनस्याज्ञया, अत्र केचिद्बीजांकुरन्यायं भावाद् द्रव्यं द्रव्याद्भाव इत्येवमुपदिशन्ति, तदसम्यक्, द्रव्यलिंगे सति भावलिंग | भवति न भवति वेति समयसारवृत्तिवचनात् 'भावपूर्वकत्वादेव सर्वस्ये' ति न्यायाद्भाव लिंगपूर्वकमेव द्रव्यलिंगमिति नियमाच्च, द्रव्यलिंग तु बाह्यं नान्तरस्य भावलिंगस्य निश्चयाज्जनकम्, अभव्यानां तथात्वात्, यतु उपदेशमालायाम् - "धम्मं रक्खइ वेसो” इत्युक्तं तद्व्यावहारिकं भावलिंगजन्यस्य द्रव्यलिंगस्य स्थैर्यसाधनप्रतिपादकं मातुरुत्पन्नपुत्रस्य मातृप्रतिपालनवत् नैतावता मातृपुत्रयोरन्योऽन्याभिमुख्येन कार्यकारणभावः, केवलं मातृव्यवस्थानवत् केवलस्यापि भावस्य व्यवस्थानात, अंत एव"भावो य पढमलिंगं ण दव्दलिंगं च जाण परमत्थं । भावो कारणभूओ गुणदोसाणं जिणा बिंति ॥ १ ॥” इति भावप्राभूते, | अस्तु वा बीजांकुरन्यायस्तथापि यस्माद् द्रव्यलिंगाद्भाव लिंगोत्पत्तिः तद् द्रव्यलिंगमध्यात्मकृतं सम्यक्त्वादिप्रतिबन्धकापगमरूपमेव, यदुक्तमिन्द्रनन्दिना समयभूषणे - 'द्रव्यलिंगमिदं ज्ञेयं, भावलिंगस्य कारणम् । तदध्यात्मकृतं स्पष्टं न नेत्रविषयं यतः ॥ १ ॥ " यद्वा जन्मान्तरीयद्रव्यलिंगमेव तत्तदावरणकर्म्मक्षयोपशमकरणेन भावलिंगस्य कारणं भवतीति, तेन गृहस्थानामपि प्राग्भवे क्षिप्तबहुकर्म्मणां मोक्षे न किश्चिद्वाधकं पश्यामः, तवापि समये तथाऽगीकारात्, यदुक्तं द्रव्यसंग्रहवृत्ती"पि भरतसगररामपाण्डवादयो मोक्षं गताः तेऽपि पूर्वभवे भेदाभेदरलत्रय भावनया संसारस्थितिं स्तोकां कृत्वा पथान्मोक्षं गता " इति अस्मन्मते पञ्चवस्तुकवृत्तौ चायमेवार्थ:- तेसिपि य भावचरणं तद्दाविहं दुव्वचरेणपुब्वं । अनaat
For Private and Personal Use Only
गृहिअन्यलिंगसिद्धिः
॥१६४॥