________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे
गृहि
| लिंग्यादेः सिद्धि
CARRRRRRR
यमप्यवश्यम् ॥ ३॥ शब्दादेव हि केवलं न कवलैरीकृतं कुत्रचिद्, दृष्टं यत् स्वरतोऽधिकं प्रकटयद्विश्वस्य मार्गोदयम् । तघे तद्वति तनिषेधनिपुणास्त्यक्त्वा गुणं प्राकृतं, शैलेश्याचरितं भजन्तु सततं मौनाज्जिनस्यात्मनि ॥४॥छअस्थमावे तपसां प्रवृत्तिर्निरन्तरा तीर्थकृतस्तदीया । स्यात् केवले केवलपारणव, यावन संलेखनिका निकामम् ॥५॥ इति श्रीयुक्तिप्रबोधनाटकस्वीपज्ञव्याख्यायां महोपाध्यायश्रीमेघविजयगणिकृतायां केवलिकवलाहारविवेकः॥
अथ गृहिअन्यलिंगिनोऽपि खलु सिद्धिनास्तीति विवियते, तत्र तावत्तेषामभिप्रायः आरम्भरसिकत्वाद्भावचारित्रानुपपत्तेद्रव्यलिंग विना केवलभावस्याप्रयोजकत्वान गृहस्थवेषेण सिद्धिः, आरम्भस्तु प्रतिपदं प्रतीत एव, यदुक्तम्-"खण्डनी पेपणी चुल्ली, ॥ उदकुम्भः प्रमार्जनी। पंच सूना गृहस्थस्य, तेन मोक्षं न गच्छती ॥१॥"ति, एवमन्यलिंगिनः सम्यग्ज्ञानापरिणामादेव न मुक्तिः, | यतसंसर्गात् सम्यक्त्ववतोऽपि सम्यक्त्वस्य मालिन्यं तर्हि साक्षात् स्वयं तस्य मोक्षं का प्राप्तरूपः श्रद्दधीत', यत्तु कुत्रचिदन्यलिंगिनोऽपि मन्दकषायत्वान्मार्गानुसारि रागपरिणामः प्रेक्ष्यते श्रूयतेऽपि न तावन्मात्रेण मोक्ष इति, मोक्षकारणानां ज्ञानादीनां द्रव्यतो भावतो वा द्वैरूप्येणैव कार्यसिद्धेः, केवलभावस्यैव कारणत्वे स्वप्नज्ञानविषयीभूतान्मोदकादेरपि तृप्तिः स्यादिति । अत्राप्यभिधीयते-आरम्भरसिकत्वस्य हेतो गासिद्धेने मोक्षं प्रति बाधकता, न हि सर्वे गृहस्थास्तथाभूताः, वैराग्यभाजनजनस्यापि प्रत्यक्षत्वात् , अथ स वैराग्यभाग् भवत्येव न, प्रत्यहमारम्भमनत्वात्, तप्तायोगोलकल्पस्य तस्य कदाप्यारम्भानुपरमादिति चेत्, न, कस्यचित् कथंचिद्दीक्षाग्रहणोन्मुखस्य तदुपरमे प्रत्यक्षात्, यदुक्तं भावमाभृते-दिक्खाकालाईयं मावहिय वियारदसणविसुद्ध". मिति, व्याख्या-यथा दीक्षाकाले दारियकाले रोगादिकाले च ये भावास्त्वया भाविता धाश्रयणपरिणामाः तान् भावान् भावय हे
॥१६॥
R ESS
For Private and Personal Use Only