________________
Shri Mahavir Jain Aradhana Kendra
युक्तिप्रबोधे
।। १५४।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सोऽपि न किंचित्, तदभावेऽपि त्वन्नये अघातिवर्गस्य चारित्रमालिन्यजननकथनात्, यदि च मोहक्षयजनितचारित्रेऽपि मलजननं तर्हि स्वकार्यजननसामर्थ्य किं प्रष्टव्यं ?, यदुक्तं द्रव्यसंग्रहवृत्तौ "ननु केवलज्ञाने प्राप्तेऽपि किं विशुद्धिविशिष्टं गुणस्थानद्वयमिति चेत्, सयोगिकेवलिनो यथाख्यातं चारित्रं, नतु परमयथाख्यातं, चौराभावेऽपि चौरसंसर्गिगवत् मोहोदयाभावेऽपि योगत्रयव्यापारः चारित्रमलं जनयती” ति, ततः केवलिप्रकृतीनां दग्धरज्जुकल्पत्वमिति मिथ्या प्राकृतलोकोक्तिः, अर्हत्सु मुक्तत्वं तदुपचारादेव, न तू तत्त्वतः, क्रियाकलापवृत्ती - "नष्टाष्टकर्म्म समये अयोगिचरमसमये शिवमरिष्ठनेमिरुज्जयन्ताद्रौ प्राप्तवानि" ति व्याख्यानात्, | शयनादिप्रसङ्गस्तु निद्रानिषेधादेव प्रत्युक्तः, भगवतो नीहारस्यादृश्यत्वादितरकेवलिनां तु विविक्तदेशे करणान्न दोषः, कवलग्रहणधारणयोस्त्वात्मप्रयत्नजन्यत्वेन वीर्यान्तरायाभाव कार्यत्वं, इच्छापूर्वकग्रहणधारणयोरेव मोहकार्यत्वात्, अन्यथा संयतानामपि ग्रहणधारणे न स्यातां, इच्छया तद्ग्रहणे महाव्रतस्यैवाभावप्रसङ्गात् यदुक्तं समयसारवृत्ती - " अपरिग्गहो अणिच्छो भणियो गाणी य णेच्छए असणं । अपरिग्गहो हु असणस्स जाणगो तेण सो होइ ||१||" इच्छा-परिग्रहः, तस्य परिग्रहो नास्ति यस्येच्छा नास्ति, इच्छा त्वज्ञानमयो भावः, स तु ज्ञानिनो नास्ति, ज्ञानिनो ज्ञानमयभावोऽस्ति, ततो ज्ञानी अज्ञानमयस्य भावस्य इच्छाया अभावादर्शनं नेच्छति, तेन ज्ञानिनोऽशनपरिग्रहो नास्ति, ज्ञानमयस्यैकस्य ज्ञायकभावस्य भावाद् अशनस्य केवलं ज्ञायक एवायं स्या" दिति तद्वृत्तिः, एवं प्रवचनसारवृत्तौ " एककालाहार एव युक्ताहारो, नानेककालः, तस्य शरीरानुरागसेव्यत्वेन प्रसा हिंसाऽऽयतनीक्रियमाणत्वात्,” एतेन कवलाहारो रतिपूर्वक एवेति निरस्तं न च द्रव्यादिग्रहणप्रसंगोऽनर्थकत्वाच्चारित्रविरोधात्,
१ " पव्वज्जा अत्थगहणेणे" ति वचनात्
For Private and Personal Use Only
केवलि
मुक्तिसिद्धः
॥१५४॥