________________
Shri Mahavir Jain Aradhana Kendra
युक्तिप्रबोधे ॥१५३॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाति सूत्रमपि तदुक्तं श्रीउमास्वातिवाचकैस्तत्त्वार्थे - 'सूक्ष्मसम्पराय ( च्छद्मस्थ ) वीतरागयोश्चतुर्दश, एकादश जिने' इति, मिध्यात्वादिसप्तगुणेषु सर्वे परीपहाः, अदर्शनपरीषदं विना एकविंशतिरपूर्व करणे, अरतिं विना सवेदानिवृत्तौ विंशतिः, अवेदानिवृत्ती स्त्रीपरीषदं विनैकोनविंशतिः, तस्यैव मानाभावे नाग्न्यनिषद्य (क्रोशयाचनासत्कारैर्विना तदग्रेऽनिवृत्तिसूक्ष्मोपशान्तक्षीणगुणेषु चतुर्दश, प्रज्ञाऽज्ञानाला मैर्विना सयोगे एकादश, वेदनीये क्षुत्पिपासाशीते। ष्णदंशमशकचर्याशय्या वधरोगतृणस्पर्शमला इति भावनासंग्रहे, एतेन क्षुधो मोहकार्यत्वं परास्तं, मोहाभावेऽपि क्षुद्भावात् न चैतच्छून्यगृहे निमन्त्रणमात्रं, वेदनीयसद्भावात्, न तु फलवदिति वाच्यं, उपसर्गेतरसिद्धस्वीकारवैयर्थ्यात्, यदि तावती उपसर्गहेतुर्वेदना फलवती प्रतीयते तर्हि वराक्याः क्षुधः पराकरणे वाङ्मात्रमेव, एतेन "ते दोसा पुण सव्वे छुहाइया नत्थि केवलिणो" इति भावसंग्रहादिअर्वाचीनग्रन्थसन्दर्भः प्रत्याख्यातः, यदपि 'सामग्री जनिका नैकं कारण' मिति तत् सत्यं परं मोहस्य तत्सामग्रीरूपत्वमेव नास्ति, सामग्री तु प्रक्षेपाहारमात्रस्य पर्याप्तत्वं त्रसत्वं नरतियक्त्वं वेदनीयोदयस्तैजसं शरीरमाहारपक्तिनिमित्तं योनिनिर्गमादि दीर्घायुष्कत्वं चेति, सा च सम्पूर्णव, तथा च प्रयोगः- अस्ति केवलिनो भुक्तिः, समग्र सामग्रीकत्वात्, पूर्वशुक्तिवत्, तथाहि — तैजसशरीरेण मृदुकृतस्याहृतद्रव्यस्य स्वपर्याप्त्या परिणामितस्य उत्तरोत्तरपरिणमनेन प्रकारेण क्षुदुद्भवो भवति, इत्येवं समवहिता सामग्री कार्यमर्जयति, योऽपि सैन्यनायकदृष्टान्तः
१ अत्र दिपटो यथा विपं मन्त्रादिना विफलं मूलं विना पुष्पं विफलं यथोपेक्षावतोर निवृत्तिसूक्ष्म सम्पराययोमैथुनसंज्ञा परिग्रहसंज्ञा चाफला यथा केवलिन एकप्रचिन्तानिरोधाभावेऽपि कर्म्मरजोविधूननफलसम्भवाद् ध्यान।पचारस्तथा क्षुधाद्युपचार इि
For Private and Personal Use Only
केवल
मुक्ति
सिद्धिः
।।१५३।।