________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे ॥१५२॥
ANS
केवलि मुक्ति सिद्धिः
45556Rw1.
तदपिरतिपूर्विकाया आहारसंज्ञाया अस्मदादेरेव लोभान्तर्भूतत्वसाधक,परंन आहारसंज्ञाया रतिकर्मपूर्वकनियमसाधक,नोकाहारिणि भगवत्येव त्वन्नये व्यभिचारात,अत एव विशिष्टायास्तस्या मायालोभौ बीजं, न केवलाया इति, तत एव स्थानांगे-'तओ नियंठाणोसण्णो| वउत्ता पं०, तं० पुलाए णियंठे १ सिद्धे २ सिणाए ३' अत्र पूर्वानुभूतस्मरणानागतचिन्ताद्वारेणोपयुक्ता इतीदृशाहारसंज्ञाया विशिष्टाया निषेधः, ततः संज्ञानं संज्ञा-आभोगः, सा द्विधा-क्षायोपशमिकी औदयिकी चेत्यादि प्रवचनसारोद्धारवृत्तौ प्रज्ञापनावृत्तौ च, तेनाहारसंज्ञाबीजं वेदनीयं पृथगेव, नन्वेवमाहारसंज्ञा अर्हति सिध्यतीति चेत्, सत्यं, संज्ञानं संज्ञा बुद्धिरित्यर्थश्चेन्न विरोधः, स्थानविहारादीनां बुद्धिपूर्वकत्ववत् , यथा चैतत्तथा साधितं प्राक, यदि संज्ञा वांछा इत्यर्थः तदा मोहरूपत्वाद्विरोध एवेति, न चास्या आवश्यकत्वं, ध्यानादिक्रियाणामिच्छां विनापि केवलिनामिष्टत्वात् , समुद्घातकरणवत्, अपिच-यदि मोहविपाक एवं क्षुत् स्यात् तर्हि मिथ्यादृष्टेबहुमोहसद्भावाद् बहुक्षुधा, सम्यग्दृष्टेरल्पा, न चैतदननुभवात् , अथ मोहमन्दता तत्र कारणमिति चेत्, न, मन्दताऽपेक्षया क्षयस्याधिक्यात् , यस्तु सन्तोषेण क्षुधाजयस्तत्र जठरस्य पवनेनापूर्यमाणत्वाद्वेदनीयोपशान्तेरेव, न चेत्तपःकृतं कार्य न स्यात् , ननु अप्रमत्तादारभ्य वेदनीयस्योदीरणा नास्ति ततो न प्रभूतपुद्गलोदयोऽपि, तेन केवलिनो वेदनीयस्य दग्धरज्जुसमानत्वात् तत्कृता क्षुत् कथं प्रभवति ?, तस्या बुभुक्षा भोक्तुमिच्छेत्यभिधेयत्वादिति, तदपि मन्दम् , अविरतसम्यग्दृष्टयादिष्वेकादशगुणस्थानेषु वेदनीयस्य गुणश्रेणीसद्भावात् प्रचुरप्रचुरपुद्गलोदयेन विपर्ययस्यापि सम्भवेन क्षुदतिशयात्, अथ प्रदेशतः प्राचुर्येऽपि न रसाधिक्यमिति चेत् सातोदयस्यापि ताद्रूप्यारिस्यसम्भवः, ततो नोदीरणाभावात् क्षुदभावः साधीयान् , “क्षुपिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमलाख्या वेदनीयोदयजन्याः परीपहा" इत्यागमात् , तदनु
॥१५॥
कर
For Private and Personal Use Only