________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे ॥१४८॥
केवलि सिद्धि
मुक्ति
CIAAAAAA
निश्चये प्राधान्याप्राधान्यस्यैव नियामकत्वात्, "ओसन्नं सुरमणुए सायमसायं च तिरियनरएसु" इत्यत्र प्रायोभाणतेः, यदागमः, "नेरइयाण मैते. किं सायं वेदंति असायं वेदति सायासायं वेदंति', गोयमा तिविहंपि वेदणं वेदेति, एवं सव्वजीवा जाव वेमाणिया" इति प्रज्ञापनासूत्रे ३५ पदे, अस्तु वा भगवति बहुतरसद्वेद्योदयजन्य सात, परं तस्य नानन्त्यं, कारणसद्भाव एव भावात्, तथा |च भूयान् सातोदयोऽल्पस्त्वसातोदय इति स्थितं, परं न किमपि केनचिद् बाध्यते, तदुदयाभावप्रसंगात्, अन्यथा द्वादशमगुणस्थान एव मोहाभावात् सकलपातिकर्मणां नैवल्येन केवलोदयः स्यात्, तेन मोहस्य दशमगुणस्थाने विशिष्टविशुध्ध्या क्षपणीयत्वात् , वेदनीयस्य यावद्भवस्थितत्वेनानन्तगुणविशुध्ध्याऽपि अजेयत्वेन बलवत्वात् , अत एव 'इह नाणदंसणावरणवेयमोहाउ' इति पातिकर्मपंक्ती सूत्रे तस्योदेशः, यत्र तु कुत्रचिन्मोहस्याधिक्यं तन्मिथ्यापेक्षयैव ध्येयम् , अन्यथा सर्वेषां कर्मणां स्वस्वकायविषये बलीयस्त्वात् , विपक्षे कर्मसंकरात कम्मैक्यानुषंगः, एतेन भास्वत्प्रभामण्डले प्रदीपवदित्यादि प्रत्यादिष्ट, तत्तद्भावानां तदुपमर्दकत्वनात्र तदभावात् दृष्टान्तवैषम्यात्, योऽप्याश्चर्यत्वेन स्वीकारः तत्रापि षण्मासी यावदसातोदयेन रोगनैरन्तर्यासम्भवात् तीर्थकराणामेव, परेषां केवलिनों तथात्वेऽनाश्चर्यत्वात, गजसुकमालाधन्तकृत्केवलिवत्, यथापूर्ववन्धं तदुदयनयत्यं, तेन 'निबरसलवुच्च पए' इत्यत्र सातस्य पौद्गलिकस्याध्यात्मिकस्यैकत्वेन विवक्षया प्रवर्द्धमानत्वं परस्यासातस्य क्रमतोऽनुपचीयमानत्वमेव व्यग्य, यदपि मोहसहकारिकल्पनं तदपि न यौक्तिकं, गत्यादीनां पंचाशीतिप्रकृतीनां तत्साहचर्येणोपनिवद्धानां सर्वासां स्वस्वविषये सबद्वानां स्वीकारे केवलमसातस्यैवाकिंचित्करत्वे पक्षपातप्राकट्यात् , यद्यसाताद्यकिंचित्करं कर्मजालं तर्हि तत्समीकरणार्थ कथं केवलसमुन्धातः स्याद्विख्यातः, अथाशुभप्रकृतय एव तस्य साहाय्यकमपेक्षन्ते नान्या गत्यादयस्तेन सात स्पष्टमसातं न किंचिदिति
॥१४॥
For Private and Personal Use Only