SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir N केवलि मुक्ति सिद्धिः युक्तिप्रबोधे है चेत् , न, नियामकाभावात् , व्याप्तिग्रहस्तु यथाऽस्मदादिषु शुभानां तथाऽशुभानामपि मोहसाहचर्ये इति न किंचिदेतत् । किंच॥१४॥ मोहाभावेऽपि क्षीणकषायभावे गुणस्थाने गमनक्रियाभाव एव ध्यानासननियमात् स्वीक्रियते तर्हि कथं सयोगिनि प्रशस्तविहायोगत्युदयः स्वीक्रियते ?, अस्मदादिषु तस्या मोहेनान्वयात् क्षीणकषाये व्यतिरेकाच्च, अस्माकं तु नायं दोषः, गच्छतां भुजानानां क्षपकश्रेणरंगीकरणात्, अपिच- मोहाभावादेवासाताकिंचित्करता तर्हि कवलाहाराभावोऽतिशयः किमभ्युपेयते ?, मोहरूपसहकारिजनितज्ञानावरणीयादिजन्याज्ञानाधभाववत्, अतिशयस्तु स एव यत्कारणं सदपि कार्यजननाय नोच्छ्वसति, अग्न्यादिसमवधाने दाहाभावजनकमण्याचतिशयवत् वेदनीये सत्यपि उपसर्गाभावरूपातिशयवद्वा, अन्यथा मतिज्ञानाभावादीनामपि अतिशये परिगगणना स्यात्, अस्मन्मते तु नायमपि दोषः, रुजायेकादशातिशयानां लोकेषु तत्कारणे कर्मणि सत्यपि कार्यानुदयरूपत्वात्, अपि चअयमतिशयोऽर्हत एव तह-तरकेवलिना कवलाहारप्रसंगः, न चैतेऽतिशयाः सार्वत्रिकाः, क्षीरगौररुधिरत्वादेर्धर्मचक्रादेरसम्भवात्, एतेन मोहस्य सहकारित्वं ध्वस्त । यच्चाहतः कृतकृत्यत्वं तदपि नैकान्तेन, सयोगिकेवलिनश्चतुर्गतिभ्रमाभावात् संसारान्तप्राप्त्य| भावाच्च, ईषत् संसारो नोसंसार इति भावसंग्रहे भणनात्, तस्य भवोपग्राहिकर्मणां सद्भावातीर्थकरनाम्नः प्रकृतेर्द्धर्मोपदेशादिनैव संवेदनात्, यदुक्तं चावश्यकनियुक्ती- 'तं च कहं वेइज्जह? अगिलाए धम्मदेसणाईहिं ।' आदिशब्दाद्विहारादिग्रहः, तत एव त्वदुक्तिपि-ततः परार्थसम्पत्यै, धर्ममार्गोपदेशने' इति, तथा-परार्थ स कृतार्थोऽपि, यदैहिष्ट जगद्गुरुः । तन्नूनं महतां चेष्टा, परार्थव निसर्गतः ॥१॥ इत्यादिपुराणे । एवं जरद्वस्त्रप्राया इत्यत्रापि वर्तमाने शतुरानयनेन नूतनोपचयो नासद्वेद्यस्येत्येव परमाथेः, व्याख्यायां तु क्तप्रत्ययो वर्तमाने भूतोपचारादेव, उत्पाद्यमाने घटे घटत्वप्रतीतिवत्, अन्यथा सातावेद्यायुःप्रभृतयः सर्व IREEx-10% ॥१४९॥ For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy