SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधे केवलि C ॥१४७॥ सिंहासनमध्यास्ते ? कमलेषु पादौ न्यस्यति?, अनन्तशस्तषामपि तथाभृतत्वात, यद्यपि 'विष्टरं तदलचक्रे, भगवानादितीर्थकृत् ।। चतुर्भिरंगुलैः स्वेन, महिम्नाऽस्पृष्टतत्तलः ॥१॥ इत्यादिपुराणोक्त्या तदस्पर्शस्तथापि विचालस्थपुद्गलानामपि तथाभावात्, कथं वा उच्छ्वासयोग्यभाषायोग्यनोकाहारयोग्यपुद्गलानुपादत्ते ?, तेषामपि तथाभूतत्वात्, न चैतेषां स्वभावादागतिरुच्छ्वासादिपर्याप्तीनां वैयापत्तेः, स्वभावस्य प्रागेव तिरस्कृतत्वाच्च, अथ ते तु पूर्व तथापरिणता इदं तु ध्यानादि कुत्सितभूमौ उत्पन्न कुत्सितवस्तुसम्पर्क निन्द्यपुरुषैः स्पृष्टमस्मिन्नेव पर्याये इति चेत्, न, छामस्थ्येऽपि तज्ज्ञानसम्भवेन कवलाहारनिषेधापत्तेः, नापि त्रयोदशः, अनुकम्पाकारकत्वेऽपि अस्मदादिवन तवाशयसिद्धिः, माऽस्तु वाऽनुकम्पा, तेषां जीवानां स्वकृतकम्मेफलभाक्तृत्वाद् अन्यथा केवलज्ञानं महादुःखसाधनं स्यात्, येन तत्पुरा स्वदुःखेन दुःखितः स्यात् तदुत्पत्तौ तु समकालं जगदुःखदुःखीति, आस्तां केवलित्वे वीतरागत्वं छाबस्थ्ये वीतरागत्वमेव वरं येनैतद् दुःखं न स्यात्, किंच तदनुकम्पया स्वयं दुःखाचों वा भवति जुगुसावान् वा रागाईचेता वा भयवान् वा ?, नाद्यः, अनन्तसुखे जलाञ्जलिदानात् असातवेदनीयोत्कर्षाच्च, शेषपक्षाणां प्रागेव निरासः, नापि चतुर्दशः, अनन्तरमेवोत्तरदानात्, नापि पश्चदशः, तेषामप्रतिपातित्वात्, नापि पोडशः, तस्य वेदनीयद्वयसत्तायामभावात् , यत्परमानन्दहेतुः अनन्तवस्तुपरिच्छेदनरूपमनन्तसुखं भगवति तन्न कवलाहारप्रतिबन्धकमित्युक्तं प्रागेव, अन्यथा भवस्थसिद्धयोः क्षुधावभावेन न किमप्यन्तरं स्यात्, एवं सातोदयोऽपि न तद्बाधकोऽन्तमुहुर्तेन तस्य परिवर्तनात, योऽपि विपच्यमानतीर्थकरनाम्नो देवस्य च्यवनकाले षण्मासी यावदत्यन्तसातोदयः सोऽपि परेषां देवानां च्यवनकाले 'श्रीहीनाशो वाससांचोपराग' इत्यादिलक्षणानामभावव्यञ्जक एव, न पुनरसातोदयानिषेधकः, सशरीरस्य यावद्भवं तदुभयीसद्भावात, देवानां नारकाणां च सातासातान्यतर | ॥१४७॥ AKA For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy