________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १४३॥
युक्तिप्रबोधे केवलिनामपि तत्प्रसंगात्, न सचित्ताचित्तवस्तूपघातः, समितितत्पराणामपि तत्प्रसंगादिति," अत्रानेकप्रकारकरणानि हस्तपादाद्यवयवचालनरूपाणि मन्तव्यानि न पुनः कायवचोमनोयोगलक्षणानि तेषां प्रागेवोक्तत्वात्,- 'न कर्म्मबहुलं जगत् न चलनात्मकं कर्म वा, न नैककरणानि वा न चिदचिद्वधो बन्धकृत् । यदैक्यमुपयोगः समुपयाति रागादिभिः, स एव किल केवलं भवति बन्धहेतुर्नृणा ॥ १ ॥ मिति, अन्यथा समयसारवृच्त्युक्तमल्लरूपदृष्टान्तवैषम्यप्रसक्तेः, अन्यत्रापि 'कायवाक्यमनसां प्रवृत्तयो, नाभवंस्तव सुने ! चिकीर्षया । नासमीक्ष्य भवतः प्रवृत्तयो, धीर! तावकमचिन्त्यमीहित ॥ १॥" मिति, प्राभृतवृत्तावपि 'कायवाङ्मनसां सत्तायामपि भगवतः कर्म्मबन्धो नास्ति, जीवन्मुक्तत्वात्तस्य, एवं तत्त्वसारेऽप्ययमेवाभिप्रायः, तत्र सिद्धस्वरूपकथन एव 'गमणागमणविहीणा फंदणचलणेहिं विरहिओ सिद्धो ।' इत्युक्त, नत्वद्वर्णने, यदि केवलानन्तरं हस्तपादाद्यवयवचालनं न स्यात् तदा चक्षुषि मेषोन्मेषाभावोऽतिशय इत्येव कथं, सर्वावयवस्पन्दाभाव एव स्यात्, एकनिषेधे परस्य लाभात् न च यदि चक्षुश्चालन रूपसूक्ष्मक्रियाया अपि अभावस्तर्हि सुतरां परावयववादरकर्म्मणामितिवाच्यं नानाग्रन्थाक्षरैः साधितानां विहारोपदेशादिकर्म्मणामप्यभावापत्तेः, व्युपरत क्रियध्यानस्याल्पकालीनत्वात्, एतेन -'अपरिस्पन्दितात्वादेरस्पष्टदशनद्युतेः । स्वयंभ्रुवो मुखाम्भोजाज्जाता चित्रं सरस्वती ॥ १ ॥' ति निरस्तं, अत एव विहारादिक्रियां कुर्वतां सूक्ष्मक्रिय ध्यानस्याप्यनंगीकारोऽस्मन्नये, स्वनयेऽपि एकाग्रचिन्तानिरोध रूप ध्यानलक्षणाभावात् कर्म्मरजोविधूननफलभावाद् ध्यानोपचारस्वीकारः, स चान्तर्गडरेव, पूर्वकोटिपर्यंतं ध्यानानंवस्थानात्, तत्साध्यस्य योगनिरोधस्यापि तदानीमसद्भावात् इति स्थितं मोहाभावेऽपि क्रियासमुदायो भवत्येव तत एवादिपुराणे द्वितीयपर्वणि "विवक्षया विनैवास्य, दिव्यो वाक्प्रसरोऽभवत् । महतां चेष्टितं चित्रं, जगदभ्युज्जिहीर्षता ॥ १ ॥ मिति,
For Private and Personal Use Only
केवलिनश्चल
नादिक्रिया समुदायः
॥१४३॥