________________
Shri Mahavir Jain Aradhana Kendra
युक्तिप्रनोघे 1123811
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पारतन्त्र्यादन्यस्य प्रश्नानवकाशोऽपि सिद्धान्तविरुद्धः, यदुक्तं गोमट्टसारवृत्तौ ' आयारे सुद्दयडे ठाणे समवायणामए अंग । तत्तो विवादपण्णर्त्ताए णाहस्स धम्मका ।। ३५६ ।। आचारांगे- आचारोपदेशे गाथा यथा- जयं चरे जयं चिट्ठे, जयं आसे जयं सए । जयं भुंजज्ज भासेज्ज, एवं पावं ण बज्झइ ॥ १ ॥ णाहस्स धम्मकहेति कोऽर्थः १, नाथस्त्रिलोके गणधरदेवस्वामी तीर्थकरः परमभट्टारकस्तस्य धर्म्मकथा जीवादिवस्तुस्वभावकथनं, घातिकर्म्मक्षयानंतरं केवलसहोत्पन्नस्तीर्थकरत्वपुण्यातिशयविजृम्भितो महितस्तीर्थकरस्य पूर्वाह्नमध्याह्नापराद्धार्धरात्रेषु षङ्घटिकाकालपर्यन्तं द्वादशगणसभामध्ये स्वभावतो दिव्यध्वनिरुद्गच्छति, अन्यकालेऽपि गणधरशक्रचक्रधरप्रश्नानन्तरं चोद्भवति, एवं समुद्भूतो दिव्यध्वनिः समस्तान् श्रोतृगणानुद्दिश्य उत्तमक्षमादिलक्षणं रत्नत्रयात्मकं वा धर्म्म कथयति, अथवा ज्ञातुर्गणधरदेवस्य जिज्ञासमानस्य प्रश्नानुसारेण तदुत्तरधर्म्मकथनं तत्पृष्टास्तित्वादिस्वरूपकथनं तद्धर्म्मकथानामकं षष्ठमंगमिति । अथैवं भवतु गणधरेणान्येन वा बोध्यता भगवद्वचसः, परं ध्वनिकथनादनक्षरात्मकत्वं तु सिद्धमेवेति चेत् न, अनक्षरात्मकत्वे सत्यानुभयरूपवाग्योगद्वयस्याविवेचनात् मेघध्वनेरिवं, तथाच गोमहसारवृच्युक्तः कथमालापः सिध्येत्, तथाहि सयोगकेवल गुणस्थाने गु० १जी २५६ । ६ प्रा ४। २सं०ग १३१ का १यो७म२वा२औ २ का १वे०क० ज्ञा० १के। सं१यथा० द. १ के. ले० ६ भा ६ स १ स १ क्षा स० आ. १ अना २ उ०२ । तथा तद्गाथापि - "मणसहियाणं वयणं दिङ्कं तंपुन्वमिति सयोगम्मि । उत्ती मणोवयारो निंदियणाणेण हीणम्मि ॥ २२४ ॥ इन्द्रियज्ञानेन मतिज्ञानेन हीने सयोगकेवलिनि मुख्यवृत्त्या २. द्वीन्द्रियादेरसस्यमृषायोगवत् ।
For Private and Personal Use Only
केवल
मुक्ति
सिद्धौ
वाण्याः
साक्षरता
॥१३४॥