________________
Shri Mahavir Jain Aradhana Kendra
युक्तिप्रबोधे
॥१३०॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वन्ति ३ भू रत्नमयी भवति ४ वातोऽनुकूलः शीतो मन्दः सुरभिश्च ५ सर्वलोकानां मोदः ६ अग्रेऽग्रे एकयोजनं वायवः सुगन्धा भूमेः कण्टकाद्यपनयन्ति ७ स्वनितकुमारा गन्धोदकं वर्षन्ति पादाधोऽम्बुजमेकं अग्रतः सप्त कमलानि पृष्ठतश्च सप्त योजनैकप्रमाणानि सहस्रपत्राणि पद्मरागमणिकेसराणि अर्द्धयोजनकानि ९ भूः सर्वधान्या निष्पत्तिमयी १० आकाश निर्मलं दिशो निर्मला ईत्यभावः ११ भवनवासिनः सर्वदेवानाह्वयन्ति महापूजार्थं त्वरितमागच्छतु भवन्त इति १२ स्फुरद्धर्म्मचक्रं आकाशे चलति पुरतः। १३ छत्रध्वजदर्पणकलश चामरभृंगारतालसुप्रतीष्टक इत्यष्ट मंगलानि पुरतः १४, एते देवकृताशिया इति बोधप्राभृतवृत्तौ दर्शनप्राभृतवृत्तौ च, किंच-कर्म्माष्टकमध्ये केन कर्म्मणा कवलाहारग्रहणं १, न तावदाद्ये, तयोस्तद्विलक्षणत्वात् नापि वेदनीये, तस्य परामिप्रायेणापि क्षुदुत्पादनमात्रशक्तित्वात्, नाप्यायुर्नामगोत्राणि, अविप्रतिपत्तेः, अवशिष्टो मोहः स चार्हति नास्तीति कथं स्वाशयपूरणं १, एतेन यदुक्तं रत्नाकरावतारिकायाम् 'यत्कवलाहारेण सर्वज्ञस्य साक्षाद् विरोधो वा परंपरया ?, नाद्यः, नहि केवली कवलाभ प्राप्नोति, प्राप्तानपि तामाहर्तुं शक्रोति, शक्तोऽपि विमलकेवला लोकपलायनशंकया नाहरतीत्यस्ति सम्भवः, अन्तरायज्ञानावरणकर्म्मणोः समूलकार्यकपणादित्यादि तन्निरस्तं द्रव्यादिग्रहणेऽपि समानत्वात्, न हि केवली द्रव्यादि नाssप्नोतीति तुल्याविरोधात् परम्परया यथा द्रव्यग्रहणे चारित्रविरोधः ततः सार्वज्ञो न, तथा कवलाहारग्रहणे बुभुक्षालक्षणमोहस्या| वश्यंभावित्वाच्चारित्रविरोधः, ततः सार्वश्येन विरोधात् न च प्रमत्तसंयतानां चारित्रविरोधापत्तिरिष्टापत्तेः कवलाहारं कुर्वतां प्रमत्तसंयतानां सूक्ष्मसाम्परायिकयथाख्यातरूपात्युग्रचारित्रद्वयविरोधांगीकारात्, न हि अस्माकं सांशयिकवद् झुंजानानामपि केवलज्ञानस्वीकारोऽस्ति, ध्यानासनस्थस्यैव क्षपकश्रेणेरारोहात्, न हि वयं कवलाहारग्रहणे सर्वचारित्रविरोधमभिदध्मः, एवं बाल
For Private and Personal Use Only
कवलाहारसिद्धि:
॥१३०॥