________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A
युक्तिप्रबोधे निर्णयात्, न हि राजा चक्रवर्त्यादिपदवीयोग्यः प्राप्तपट्टाभिषेको राजी महिषी न्यायमार्गात् नमस्करोति, प्रत्युत पुरुषत्वेन महा-है।
स्त्रीमुक्ति| व्रतयोग्यत्वेन ब्रह्मचारिण एव आर्यिका वन्द्याः स्युरिति साम्प्रतं । किंच-'तित्थं चाउव्वण्णो संघो' इति वचनात् स्त्रीणां तीर्थान्त-12
सिद्धिः ॥११५॥
भूतत्वेन 'नमस्तीर्थाय' इत्युक्तवतस्तीर्थपस्यापि तन्नमनांगीकारात् प्रतिवाद्यसिद्धः २। यदपि सप्तमनरकपृथ्वीगमनाभावादित्युक्तं तत्रापि किं तद्भवे भवान्तरे वा ?, नाद्यः, चरमशरीरिभिर्व्याभिचारात्, नेतरोऽसम्भवात्, पुरुषत्वोपाध्यपेक्षया तद्गतियोग्यत्वे सति पर्याप्तसंज्ञिपंचेन्द्रियजातिनपुंसकातिरिक्तमनुष्यत्वापेक्षयात्रापि तुल्यत्वात्, न चास्याप्रयोजकत्वं बहुव्यापकत्वादिति | वाच्यम् , नीचकुलीननरदेवादिवर्तित्वेन तदपेक्षया पुरुषत्वजातेबहुव्यापकत्वात्, अन्यच्चापि-यस्याधोगतौ बहु सामर्थ्य तस्यैवोदुर्ध्वगतावपीत्यपि नियमो नास्ति, भुजगखगसिंहसर्पस्वीमत्स्यानामधोगतौ क्रमसामर्थेऽपि ऊर्ध्वगतौ सहोर तुल्यगमनसाम-|
र्थ्यादिति प्रांचः। सर्वार्थसिद्धिगमनाभावस्तु पर प्रत्यसिद्ध एव, अस्मन्नये तदंगीकारात्, न च निगोदाद्यागतावाप्तपुरुषत्वचरमशरीरिMणां सर्वार्थसिद्धिगमनाभावेऽपि मोक्षस्यायोग्यत्वमस्ति, न चात्रापि तज्जातीये तदस्तीतिवाच्यं, केवलपुरुषत्वजातेः सर्वार्थसिद्धि
गमने प्रयोजकत्वाद् विशिष्टांगोपांगवज्रर्षभनाराचसंहननसत्कुलीनमनुष्यत्वभव्यत्वादिविशिष्टपुरुषत्वस्यैव त्वन्मतेऽभ्युपगमात्, एवमस्माकमपि पर्याप्तसंज्ञिजातिनपुंसकातिरिक्तानन्धप्रथमसंहननचतुर्थारकोत्पन्नत्वादिविशिष्टमनुष्यत्वस्य सर्वार्थसिद्धिगमने 8॥११५।। मोक्षे च गमकत्वमिति तुल्यत्वात्, किंच- सर्वार्थसिद्धिगमनं न जातं तथापि न मोक्षायोग्यता स्त्रीणां सिध्यति, तथाविध-8
AROHAR
4343
For Private and Personal Use Only