________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे ॥१०॥
द्रव्यपुरुषव्याख्यानेऽनुपपत्तिर्मन्तव्या, द्रव्यपुंस्त्वस्य सद्भावात्, एतेन भूतपूर्वोपचारात् 'वीस नपुंसकवेया' इत्यत्र व्याख्यापि
४ाखीमुक्तिदूषिता, स्यान्मतं कौटिल्याशुचित्वत्रपाबाहुल्यादिप्रत्यक्षानुभवात् न द्रव्यस्त्रिया मोक्षः, तत एव गाथाव्याख्या औपचारिकीति
लै सिद्धिः नान्योऽन्याश्रय इति चेत् तन्न, कौटिल्यादीनां स्वभाव व्यवहारात्, निश्चयनयापेक्षया तु कौटिल्यं मायाकषायोदयजन्यम् , अशुचित्वं चौदारिकप्रकृत्युदयानुभावि, त्रपाबाहुल्यं तत्तन्मोहनीयप्रकृत्युदयसांकर्यकार्य कर्मजं, न स्वभावज, तथा च सम्यग्दृष्टिस्त्रीसकाशान्मिथ्यादृशोऽनन्तानुबन्धिमायावत्तया कौटिल्याधिक्यात् पुरुषस्यापि तद्भवे न मुक्तियोग्यता स्यात्, अथ तत्कौटिल्यं | वेदयतो नास्त्येव मोक्षोऽन्तरकरणादिना तद्व्यपगम एव तदाप्तिरिति चेद् , अन्यत्रापि तुल्यमेतत्, अथ पुंसां तदभावे योग्यता, | स्त्रीणां तु नैषा इति चेत्, न, नियामकाभावात्, न हि प्रतिज्ञामात्रेणार्थसिद्धिः, अनन्तानुवन्धिमायायाः उपशमे क्षये वा स्त्रियाः सामर्थ्य तद्वदप्रत्याख्यानमायायास्तथा प्रत्याख्यानमायाया अपि असंख्याताध्यवसानानां त्यागसामर्थ्य स्वीक्रियते, येन घोराणुव्रतरूपमहाव्रतदेशीयैकादशप्रतिमाऽऽचरणं यावत् स्त्रियो विशुद्धिमायान्ति, सम्यक्त्वाणुव्रतधारित्वेन प्रत्यक्षानुभवात्, सर्वथा मायावाहुल्यत्वे तदपि दुर्लभं, अभव्यवत्, तथा च क्रमेण तृतीयतुर्यमायात्यागसामर्थ्य सम्भवद् दुष्प्रतीकार, स्त्रीवेदिद्रव्यपुरुषस्य तत्यागसामर्थ्य तवापि स्वीकाराद्, बहुतरदृढतममायाक्षययोग्यतायां तदल्पशिथिलतरक्षयसामर्थेऽवश्य भावात, प्रयोगश्चात्र| विवादापन्नं तृतीयादिजनितं मायाबाहुल्यं स्त्रीणां तद्भवे क्षययोग्यं, जातिनपुंसकाद्यनवच्छिन्नमायाबाहुल्यरूपत्वात्, प्रथमद्वितीय- | ||१०२॥ १ मणुसिणि इत्यीसहिया तित्थयराहार पुरिससंदूणा । इत्यत्र 'मणुसिणि' शब्देन द्रव्यपुरुषः भावस्त्री एवेतिव्याख्याने
२-%C4%AC%EC%
For Private and Personal Use Only