________________
Shri Mahavir Jain Aradhana Kendra
युक्तिप्रबोधे ॥१०१॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऽन्याश्रय इति वाच्यं, गोमहसारादाधिक्येन कस्याप्यप्रामाण्यात्, गोमहसार एव स्थानान्तरे एतत्सूत्रार्थसमाकर्षे विपर्ययस्यापि वक्तुं शक्यत्वाच्च भावतः स्त्रिया अपि द्रव्यतः पुरुषत्वस्यातिशयज्ञापनमुपचारफलमिति चेत्, न द्रव्यस्याप्राधान्याद् भावस्य मुख्यत्वाद्वेदे गतेऽपि तदुपचारसद्भावाद् द्रव्यस्त्रिया एव प्राधान्यापत्तेः, यद्भावो मोक्षार्हस्तद्रव्यभावयोः सुतरां मोक्षाईत्वात् न चैवं द्रव्वस्त्रिया भावपुरुषत्वं मोक्षाय क्षममिति, यत्तु भूतपूर्वगत्याश्रयणं तदपि न सूत्रसम्मतं यत्र तदाश्रयणं तत्र सूत्र एव प्रतिपादनाद्, अपगतवेदानिर्वृत्तिकरण मैथुनसंज्ञावत्, 'णडुकसाए लेस्सा उच्चदिसा भूदगइपरिण्णाया | अहवा जोगपती मुक्खोति तर्ह हवे लेस्सा ।। ५२२ ।। नष्टकपाये - उपशान्तादित्रये कषायोदयानुरञ्जिता योगप्रवृत्तिर्लेश्येति लक्षणवती | लेश्या भूतगतिमाश्रित्य अथवा योगप्रकृतिर्लेश्या इत्येवं मुख्याश्रयणादित्यादिसूत्रप्रदेशवद्वा, तस्मात् नात्र भूतपूर्वोपचारो, नापि अयं द्रव्यपुरुषो भावत्रीत्युपलक्षणं सुविमर्श, तथाहि-सवेदको भूत्वा अवेदको भवति, सकषायो भूत्वा अकषायश्चेति, तथा भावतः पुंवेदको भूत्वा स एव कालान्तरे स्त्रीवेदको नपुंसक वेदको वा, किञ्चिद्वस्तुनि लोभीभूत्वा अलोभी, क्रोधीभूत्वा अक्रोधी भवति इतिनोकषायप्रकृतित्वाद्वेदभावानां परिवर्त्तनानुभवादुपलक्षणासंगतः, अत एवाहारकद्विकनिषेधो द्रव्यस्त्रिया एव युक्तः, पूर्वप्रक्षे 'संभिलाई दस विष्णु सेसा संखाउभवियमहिलाणं' इत्युक्तत्वात्, उदयत्रिभंग्यामपि 'मणुसिणि इत्थी' त्येतद्भाथायां अयोगे तीर्थकृत्त्वाभावादिति द्रव्यस्त्रीव्याख्यायामेव सुसंगतं, द्रव्यपुरुषाणां तीर्थकृत्त्वयोग्यत्वात्, भावस्त्रीत्वस्य तत्त्वतोऽयोगे भावेनोपचारस्यानुपयोगात्, न हि मावत्रीत्वे भवता विकल्पितेऽयोगिनि पुरुषे तद्वस्तुगतिः स्याद्, अतिप्रसंगात्, एवं पुरुषवेदनिषेधेऽपि मानुष्या
For Private and Personal Use Only
स्त्रीमुक्तिसिद्धिः
॥१०१॥