________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे ४
पूर्वाध्ययनेनाहारकतन्मिश्रयोगद्वयसम्भवात् , अथ पुंवेदोदयस्य चतुर्दशपूर्वपठनं यावत् अनयत्यादशुभवेदस्य पुनरुदयेन तद्योग-| 1 स्त्रीमुक्ति
द्वयाभाव एवेतिचेब, एवं सति द्रव्यभावपुरुषस्यापि तुल्यत्वेन कदाचिदपि आहारकशरीरकरणं न स्यात् , भाववेदानां यावज्जी॥१०॥
दि सिद्धिः वाऽनवस्थानात्, द्रव्यवेदस्यैव भवप्रथमसमयमादिं कृत्वा तद्भवचरमसमयं यावदवस्थानस्य प्रागुदितत्वाच्च, तेन द्रव्यस्त्रीव्याख्यायामेवाहारकद्विकाद्यभावः सूपपाद इति । अथ कश्चित्पुरुषो भावतः स्खोवेदं वेदयति यावन्नावेदकत्वं स्यात् तावत्कालं स्त्रीवेदस्यैव सदावस्थानात् न तत्परावर्त्त इष्यते भावतो, द्रव्यतोऽपि पुवेदिन इव तस्यापि सदा ताद्रूप्याद् , विचित्रत्वाद्भावस्य भावानाम्, एवं च तादृशस्य पुंसस्तीर्थाहारकद्विकाद्यसत्त्वयोग्यत्वेन न कश्चिद् बाध इति चेन्न, वेदवैषम्ये चलाचलत्वस्यैव युक्तत्वात् , अन्यथा | पुरुषत्वव्याहतेर्नपुंसकत्वापातः सदा, परपुरुषाभिलापात् कदापि खिया आत्मना अभोगात् तृतीयवेदाविशेषात् द्रव्यभावपुंसो वेदसाम्येऽपि चलाचलत्वं भावमाश्रित्यानुभूयते तर्हि वेदवैषम्ये चलत्वे किं चित्रमिति, दृश्यते द्रव्यभावपुमान् कदाचित् स्त्रीवांछकः, स एव कदापि वैराग्यादिना सद्यो भुक्तभोगादिहेतुना वा स्त्रिया अवांछक एव, किंच-प्रतीयमानमर्थ द्रव्यस्त्रीरूपं विहाय भावस्त्रिया अर्थः समाकृष्यते भूतपूर्वगत्योपचारेण चतुर्दश गुणस्थानानि मानुष्याः समर्यन्ते तदहेतुकं सहेतुकं वा ?, सूत्रे मानुष्या एव प्रतिपादने वृथा सूत्रातिक्रमदोषात् नाद्यः, न च 'अवगयवेदे मणुसिणी सण्णा भूदगदिसमासज्जे-' त्यत्र तणनमिति वाच्यम् , तत्र मैथुनसंज्ञाया एवोपचारसमर्थनात्, एतेन त्रिभंगीवृत्तिव्याख्यानमसंगतमावेदितं, द्रव्यस्त्रिया
|॥१०॥ मोक्षाभावाद् , भावत्रीमाक्षव्याख्यानं सहेतुकमिति द्वितीयो न, परस्पराश्रयात्, सिद्ध द्रव्यस्त्रीमोक्षाभावे भावस्वीपरं सूत्रव्याIPाख्यान, भावस्वीपरसूत्रव्याख्याने सिद्धे द्रव्यस्त्रीणां मोक्षाभावसिद्धिरिति, न च शास्त्रान्तराद् द्रव्यस्त्रीमोधाभावसिद्धेर्नान्यो-10
KASAR -4
PRECENSUSA
For Private and Personal Use Only