SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्त्रीमुक्ती पूर्वपक्षः .4 M युक्तिप्रवाधा चिन्तायामनुपयोगित्वात, नग्नत्वसचेलत्वयोर्विरोधाच्च, किंच एवं प्रथमान्तिमजिनसाधूनामुपचाराचेलकत्वे साध्यमानेऽपि नाजितादिसाधूनामचेलकत्वं सेत्स्यति, तेषां तस्याप्यभावात् , न चेयं प्रथमान्त्यजिनसाध्वाचारगाथैवेति शक्यं, परीपहेष्वपि अचेलत्वस्य भणनात् , न चेयमपि तथैव, तेषामसंयतत्वप्रसंगाद , एवं निःशंका तुच्छा गर्वबहुलाः चलेन्द्रिया दुर्बलाश्च स्त्रियः कथं | मोक्षाधिकारिण्यः ?, यदुक्तं विशेषावश्यकभाष्ये 'तुच्छा गारवबहुला चलिंदिया दुब्बला धिईए य । इय अइसेसज्झयणा भृयावादो य नो थीणं ॥१॥ (५५२) अन्यत्र लोकेऽप्याह-'यदि स्थिरा भवेद्विद्युत् , तिष्ठन्ति यदि वायवः । देवात्तथापि नारीणां, न स्थेम्ना स्थीयते मनः ॥१॥' तथा चातिकामत्वेन पापराशिजन्यत्वेन च तीर्थकरचक्रयादिविशिष्टलब्धियोग्यत्वाभावेनापि | परमपदानधिकारः स्त्रीणां, यदुक्तम्-"आहारो द्विगुणस्तासां, निद्रा तासां चतुर्गुणा । षड्गुणो व्यवसायश्च, कामश्चाष्टगुणः स्मृतः | ॥१॥' आगमोऽप्याह-अणंता पावरासीओ, जया उदयमागया । ताव इत्थित्तणं पत्तं, सम्मं जाणाहि गोयमाः ॥ १॥" भवतां मते कतिचिल्लन्धिनिषेधः स्त्रीणाम् 'सभिन्नाई दसविणु सेसा संखाउभवियमहिलाण' मिति च लब्धिस्तोत्रे, आदिशब्दात् 'सभिन्न चकिजिणहरिबलचारणपुव्वगणहरपुलाए । आहारगे" ति गाथोक्तं ग्राह्यम् , अपि च-स्त्रीणां स्वभावे चपलत्वात् ध्यानाभावस्तेन सर्वार्थसिद्धिगतिरपि न, तर्हि तदुच्चैर्गतिरूपा सिद्धिः कुतः, यदि चासौ स्यात् तदा कुत्रचित्तनिर्वाणकेवलोत्पत्तिस्थानाद्यप्या १' अरहंत १ चक्कि २ केसव ३ बल ४ संभिण्णे य ५ चारण ६ पुब्वा ७ । गणहर ८ पुलाय ९ आहारग १० नहु भवियमहिलाणं Du१॥ इति प्रवचनसारोद्वारे । CALCULA-NCRECOM -SCRESCRecon ॥८६॥ For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy