________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्रव्यशुद्धिप्रकरणम् ८] मिताक्षसहितान मांसं श्वचण्डालक्रव्यादादिभिर्निपातितं शुचि । आदिग्रहणात्पुल्कसादेरपि ग्रहणम् । निपातितग्रहणं भक्षितस्य निराकरणार्थम् ॥ १९२ ॥
रश्मिरनी रजश्छाया गौरश्वो वसुधानिलः ।
विप्रुषो मक्षिकाः स्पर्शे वत्सः प्रस्तवने शुचिः ॥ १९३ ॥ रश्मयः सूर्यादेः प्रकाशकद्रव्यस्य । अग्निः प्रसिद्धः । रजः अजादिसंबन्धन्यतिरेकेण । तत्र-'श्वकाकोष्ट्रखरोलूकसूकरग्राम्यपक्षिणाम् । अजाविरेणुसंस्पर्शावायुर्लक्ष्मीश्च हीयते ॥' इति दोषश्रवणात्तत्स्पर्शे संमार्जनादि कार्यम् । छाया वृक्षादेः । गौः । अश्वः । वसुधा भूमिः। अनिलो वायुः। विग्रुषोऽवश्यायबिन्दवः । मुखजानां वक्ष्यमाणत्वात् । मक्षिकाश्च । एते चण्डालादिस्पृष्टा अपि स्पर्श शुचयः । वत्सः प्रस्नवने उधोगतदुग्धापकर्षणे शुचिः। वत्सग्रहणं बालसोपलक्षणार्थम्-'बालैरनुपरिक्रान्तं स्त्रीभिराचरितं च यत् । अविज्ञातं च यत्किंचिनित्यं मेध्यमिति स्थितिः ॥' इति वचनात् ॥ १९३ ॥
अंजाश्वयोर्मुखं मेध्यं न गोर्न नरजा मलाः ।
पन्थानश्च विशुध्यन्ति सोमसूर्यांशुमारुतैः ॥ १९४ ॥ अजाश्वयोर्मुखं मेध्यं । न गोः। न नरजा मलाः । नरशब्दो लक्षणया देहममिधत्ते । तज्जा मला वसादयो मेध्या न भवन्ति । पन्थानो मार्गाः श्वचण्डाखादिभिः स्पृष्टा अपि रात्रौ सोमांशुभिर्मारुतेन च शुध्यन्ति । दिवा तु सूर्याभूमिारुतेन च ॥ १९४ ॥
मुखजा विYषो मेध्यास्तथाचमनबिन्दवः ।
श्मश्रु चास्यगतं दन्तसक्तं त्यक्त्वा ततः शुचिः ॥१९५॥ मुखे जाता मुखजाः श्लेष्मविप्रुषो मेध्याः नोच्छिष्टं कुर्वन्ति अनिपतिताश्चेदने । 'न मुखविपुष उच्छिष्टं कुर्वन्ति न चेदङ्गे निपतन्ति' इति गौतमवचनात् । तथाच ये आचमनतोयबिन्दवः पादौ स्पृशन्ति ते मेध्याः । श्मश्रु चास्वगतं मुखप्रविष्टमुच्छिष्टं न करोति । दन्तसक्तं चान्नादिकं स्वयमेव च्युतं त्यक्त्वा शुचिर्भवति । अच्युतं दन्तसमम् । तथाच गौतमः-'दन्तश्लिष्टं तु दन्तवदन्यत्र जिह्वाभिमर्शनात्प्राक् च्युतेरित्येके च्युतेष्वास्त्राववद्विद्यानिगिरन्नेव तच्छुचि' इति । निगिरणं पुनरनेन याज्ञवल्क्योक्तेन त्यागेन विकल्प्यते । निगिरनेवेत्येवकारः 'चर्वणे त्वाचमेन्नित्यं मुक्त्वा ताम्बूलचर्वणम् । ओष्ठौ विलोमको स्पृष्ट्वा वासो विपरिधाय च ॥' इति विष्णूक्ताचमननिषेधार्थः । ताम्बूलग्रहणं फलाधुपलक्ष. णार्थम् । यथाह शातातपः-'ताम्बूले च फले चैव भुक्ते स्नेहावशिष्टके । दन्तलग्नस्य संस्पर्शे नोच्छिष्टो भवति द्विजः ॥' इति ॥ १९५ ॥
१ अजाश्वं मुखतो मेध्यं ग. २ दन्तेभ्यः पतितं त्यजति गिलति वा एतावता शुज्यति विना आचमनं इति ग. पु. विशेषः. ३ निर्गिरनेव क. निगरनेव ख.
For Private And Personal Use Only