________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। . [आचाराध्यायः स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे ।
आचान्तः पुनराचामेद्वासो विपरिधाय च ॥ १९६॥ स्नानपानक्षुतस्वमभोजनरथ्योपसर्पणवासोविपरिधानेषु कृतेष्वाचान्तः पुनराचामेत् । द्विराचामेदित्यर्थः । चकाराद्रोदनाध्ययनारम्भचापल्यानृतोक्त्यादिषु । तथाच वसिष्ठः-सुस्वा भुक्त्वा क्षुत्वा सात्वा पीत्वा रुदित्वा चाचान्तः पुनराचामेत्' इति । मनुरपि-'सुस्वा क्षुत्वा च भुक्त्वा च ष्ठीवित्वोक्त्वानृतं वचः । पीत्वापोऽध्येष्यमाणश्च आचामेत्प्रयतोऽपि सन् ॥' इति । भोजने स्वादावपि द्विराचमनम्-'भोक्ष्यमाणस्तु प्रयतोऽपि द्विराचामेत्' इत्यापस्तम्बस्मरणात् । स्नानपानयोरादौ सकृत् । अध्ययने त्वारम्भे द्विः। शेषेष्वन्ते एव यथोक्तं द्विराचमनम् ॥ १९६ ॥
रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः ।
मारुतेनैव शुद्ध्यन्ति पक्केष्टकंचितानि च ॥ १९७ ॥ रथ्या मार्गमात्रम् । कर्दमः पकः । तोयमुदकम् । रथ्यास्थितानि कर्दमतोयानि अन्त्यैश्चण्डालादिभिः श्वभिर्वायसैश्च स्पृष्टानि मारुतेनैव शुद्ध्यन्ति शुद्धिमुपयान्ति । बहुवचनं तद्गतगोमयशर्करादिप्राप्त्यर्थम् । पक्केष्टकादिभिश्चितानि प्रासादधवलगृहादीनि चण्डालादिस्पृष्टानि मारुतेनैव शुद्ध्यन्ति । एतच्च 'प्रोक्षणं संहतानाम्' इत्युक्तमोक्षणनिषेधार्थम् । तृणकाष्ठपर्णादिमयानां तु प्रोक्षणमेवेति ॥ १९७ ॥
- इति द्रव्यशुद्धिप्रकरणम् ।
अथ दानप्रकरणम् ९ इदानीं दानधर्म प्रतिपादयिष्यंस्तदङ्गभूतपात्रप्रतिपादनार्थ तत्प्रशंसामाह-~
तपस्तत्वासृजब्रह्म ब्राह्मणान्वेदगुप्तये । - तृप्त्यर्थं पितृदेवानां धर्मसंरक्षणाय च ॥ १९८॥
ब्रह्मा हिरण्यगर्भः कल्पादौ तपस्तहवा ध्यानं कृत्वा कान्सृजामीति पूर्व ब्राह्मणान्सृष्टवान् । किमर्थम् । वेदगुप्तये वेदरक्षणार्थम् । पितॄणां देवतानां च तृप्त्यर्थम् । अनुष्ठानोपदेशद्वारेण धर्मसंरक्षणार्थ च । अतस्तेभ्यो दत्तमक्षय्यफलं भवतीत्यभिप्रायः ॥ १९८ ॥
सर्वस्य प्रभवो विप्राः श्रुताध्ययनशीलिनः ।
तेभ्यः क्रियापराः श्रेष्ठास्तेभ्योऽप्यध्यात्मवित्तमाः॥१९९।। सर्वस्य क्षत्रियादेविप्राः प्रभवः श्रेष्ठाः जात्या कर्मणा च । ब्राह्मणेष्वपि श्रुता.. १ चाल्पानृतो ख. २ पक्केष्टिकचितानि ख. ३ कृत्वा मुख्यान्सृजामीति ख.
For Private And Personal Use Only