________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
[आचाराध्यायः
विण्नखाः । श्लेष्मा-श्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥' तथा-'मानु. पास्थि शवं विष्ठा रेतो मूत्रार्तवं वसा । स्वेदा-श्रु दूषिका श्लेष्म मद्यं चामेध्यमुच्यते ॥' इति । अमेध्यादयो मला मनुदेवलादिभिः प्रतिपादिताः तैर्वसादिरक्तलिप्तममेध्याक्तं तस्य मृदा तोयेन च शुद्धिः कर्तव्या गन्धापकर्षणेन । आदिग्रहणाल्लेपस्यापि ग्रहणम् । यथाह गौतमः - लेपगन्धापकर्षणैः शौचममेध्यलिप्तस्य' इति । सर्वशुद्धिषु च प्रथमं मृत्तोयैरेव लेपगन्धापकर्षणं कार्यम् । यदि गन्धादि मृत्तायैनं गच्छति तदान्येन । 'अशक्तावन्येन मृदद्भिः पूर्व मृदा च' इति गौतमस्मरणात् । वसादिग्रहणं च सर्वेषाममेध्यत्वं प्रतिपादयितुं न समानोपघाताय-'मद्यमूत्रपुरीषैश्च श्लेष्मपूयाश्रुशोणितैः । संस्पृष्टं नैव शुद्ध्येत पुनःपाकेन मृन्मयम् ॥' इत्युपघाते विशेषाभिधानात्---'अमेध्यत्वं चैवमेषां देहाच्चैव मलाच्युताः' इति वचनाद्देहच्युतानामेव न स्वस्थानावस्थितानाम् । पुरुषस्य नाभेरूज़ करव्यतिरिक्ताङ्गानामन्यामध्यस्पर्शे स्नानम् । यथाह देवल: --'मानुषास्थि वसां विष्ठामार्तवं मूत्ररेतसी । मजानं शोणितं स्पृष्ट्वा परस्य स्नानमाचरेत् ॥' इति-'तान्येव स्वानि संस्पृश्य प्रक्षाल्याचम्य शुद्ध्यति' इति । तथा-'अर्व नाभेः करौ मुक्त्वा यदङ्गमुपहन्यते । तत्र स्नानमधस्तात्तु प्रक्षाल्याचम्य शुद्ध्यति ॥' इति । कृतेऽपि यथोक्तशौचे मनसोऽपरितोषाद्यत्र शुद्धिसंदेहो भवति तद्वाक्शस्तं शुचि । शुद्धमेतदस्त्विति ब्राह्मणवचनेन शुद्धं भवतीत्यर्थः । अम्बुनिर्णिक्तं यत्र प्रतिपदोक्ता शुद्धिर्नास्ति तस्य प्रक्षालनेन शुद्धिः । प्रक्षालनासहस्य प्रोक्षणेन । अज्ञातं च सदा यत्काकाद्युपहतमुपयुक्तं न कदाचिदपि ज्ञायते तच्छुचि । तदुपयोगाददृष्टदोषो नास्तीत्यर्थः । नन्वेतद्विरुध्यते-'संवत्सरस्यैकमपि चरेत्कृच्छ्रे द्विजोत्तमः । अज्ञातभुक्तशुद्ध्यर्थे ज्ञातस्य तु विशेषतः ॥' इत्यदृष्टदोषेऽपि प्रायश्चित्तप्रतिपादनात् । नैतत् । प्रायश्चित्तस्य जग्धिविषयत्वात् दोषाभावस्य चान्योपयोगिविषयत्वात् ॥ १९१ ॥
शुचि गोतृप्तिकृत्तोयं प्रकृतिस्थं महीगतम् ।
तथा मांसं श्वचण्डालक्रव्यादादिनिपातितम् ॥ १९२॥ महीगतं भूमिस्थमुदकं एकगवीतृप्तिजननसमर्थ चण्डालादिभिरस्पृष्टं प्रकृतिस्थं रूपरसगन्धस्पर्शान्तरमनापन्नं शुचि आचमनादियोग्यं भवति । महीगतमित्यशुचिभूगतस्य शुचित्वनिषेधार्थ नत्वान्तरिक्षोदकस्य शुद्धत्वव्यावृत्त्यर्थे । नाप्युद्धृतस्य–'उद्धृताश्चापि शुद्ध्यन्ति शुद्धः पात्रैः समुद्धृताः । एकरात्रोषिता आपस्त्याज्याः शुद्धा अपि स्वयम् ॥' इति देवलवचनात् । तथा चण्डालादिकृते तडागादौ न दोषः-'अन्त्यैरपि कृते कूपे सेतौ वाप्यादिके तथा । तत्र सात्वा च पीत्वा च प्रायश्चित्तं न विद्यते ॥' इति शातातपस्मरणात् । तथा
१ गंधापकर्षणात् क. २ ङ्गानां मत्या क. ३ उपभुक्तं ख. ४ नतु तद्वि ख. ५ भावस्य वान्यप्रयोग क.
For Private And Personal Use Only