________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्रव्यशुद्धिप्रकरणम् ८ ] मिताक्षरासहिता ।
पुसीसकताम्राणां क्षाराम्लोदकवारिभिः ।
भस्माद्भिः कांस्यलोहानां शुद्धिः प्लावो द्रवस्य तु ॥१९०॥ त्रपुप्रभृतीनि प्रसिद्धानि तेषां क्षारोदकेनाम्लोदकेन वारिणा वोपघातापे. क्षया समस्तैयस्तैर्वा शुद्धिः कार्या । कांस्यलोहानां भसोदकेन । ताम्रग्रहणाद्रीतिकापित्तलयोर्ग्रहणम् । एकयोनित्वात् । एतच्च ताम्रादीनामम्लोदकादिभिः शुद्ध्यभिधानं न नियमार्थम् । 'मलसंयोगजं तजं यस्य येनोपहन्यते । तस्य तच्छोधनं प्रोक्तं सामान्यं द्रव्यशुद्धिकृत् ॥' इत्यविशेषेण स्मरणात् । अतो न ताम्रादेरुच्छिष्टोदकादिलेपस्यान्येनापगमसंभवे नियमेनाम्लोदकादिना शुद्धिः कार्या । अतएव मनुना सामान्येनोक्तम्-'ताम्रायःकांस्यरैत्यानां पुणः सीस. कस्य च । शौचं यथा कर्तव्यं क्षाराम्लोदकवारिभिः ॥' इति । यत्तु-'भसना शुद्ध्यते कांस्यं ताम्रमम्लेन शुद्ध्यति' इति, तत्ताम्रादेः शौचस्य परां काष्ठां प्रतिपादयितुं नान्यस्य निषेधाय । यदा तूपघातातिशयस्तदाम्लोदकादीनामावृत्तिः । -'गवाघ्रातानि कांस्यानि शूद्रोच्छिष्टानि यानि च । शुद्ध्यन्ति दशभिः क्षारैः श्वकाकोपहतानि च ॥' इति स्मरणात् । दशक्षारानाह-'तिलमुष्ककशिग्रूणां कोकिलाक्षपलाशयोः। काकजङ्घा तथावज्ञचिञ्चाश्वत्थवटस्य च ॥ एभिस्तु दशभिः क्षारैः शुद्धिर्भवति कांस्यके ॥' शुद्धिः प्लावो द्रवस्य त्विति । द्रवस्य द्रवद्रव्यस्य घृतादेः प्रस्थप्रमाणाधिकस्य श्वकाकाद्युपहतस्य अमेध्यसंस्पृष्टस्य च प्लावः प्लावनं समानजातीयेन द्रवद्रव्येण भाण्डस्यातिपूरणं यावन्नि:सरणं शुद्धिरित्यनुवर्तते । ततोऽल्पस्य त्यागः । बह्वल्पत्वं च देशकालाद्यपेक्षयापि वेदितव्यम् । यथाह बौधायन:-'देशं कालं तेथा मानं द्रव्यं द्रव्यप्र. योजनम् । उपपत्तिमवस्थां च ज्ञात्वा शौचं प्रकल्पयेत् ॥' इति । कीटाधुपहतस्य तूत्पवनम् । यथाह मनुः-'द्रवाणां चैव सर्वेषां शुद्धिरुत्पवनं स्मृतम्' इति । उत्पवनं चात्र वस्त्रान्तरिते पात्रे प्रक्षेपः । अन्यथा कीटाद्यपगमस्यासंभवात् । शूद्रभाण्डस्थितस्य मधूदकादेः पात्रान्तरानयनाच्छुद्धिः।-'मधूदके पयस्तद्विकाराश्च पात्रात्पात्रान्तरानयने शुद्धाः' इति बौधायनस्मरणात् । मधुतादेवापसदहस्तात्प्राप्तस्य पात्रान्तरानयनं पुनः पवनं च कार्यम् । यथाह शङ्ख:-'अभ्यवहार्याणां घृतेनाभिघारितानां पुनः पवनमेवं स्नेहानां स्नेहवन्द्रसानाम्' इति ॥ १९० ॥ .. एवं सौवर्णराजतादीनामेतत्प्रकरणप्रतिपादितानां सर्वेषामुच्छिष्टस्नेहाद्युपधाते शुद्धिमुक्त्वेदानीं तेषामेवामेध्योपहतानां शुद्धिमाह
अमेध्याक्तस्य मृत्तोयैः शुद्धिर्गन्धादिकर्षणात् । वाक्शस्तमम्बुनिर्णिक्तमज्ञातं च सदा शुचि ॥ १९१ ॥ अमेध्याः शरीरजा मला वसाशुक्रादयः।--'वसा शुक्रमसृङ्मजामूत्रविकर्ण. १ दकवारिणा क. २ दकादिभिः क. ३ इदं क. पुस्तकेऽधिकम्. ४ अमेध्यद्रव्य क. ५ तथात्मानं ख. ६ घृतादेहींनवर्णा क. ७ पचनं कार्य ख.
For Private And Personal Use Only