SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८ याज्ञवल्क्यस्मृतिः। [आचाराध्यायः सदा शुचिः । शुचित्वं तत्साध्ये कर्मणि । वस्त्रधावनादौ सूतकादिसंभवेऽपि । तथाच स्मृत्यन्तरम्-'कारवः शिल्पिनो वैद्या दास्यो दासास्तथैव च ।. राजानो राजभृत्याश्च सद्यःशौचाः प्रकीर्तिताः ॥' इति । पण्यं पणार्ह विक्रेयं यवव्रीह्यादि । अनेकक्रेतृजनकरपरिघट्टितमप्यप्रयतं न भवति । सूतकादिनिमित्तेन च वणिजाम् । भिक्षाणां समूहो भैक्षं तद्ब्रह्मचार्यादिहस्तगतं अनाचान्तस्त्रीप्रदानाऽशुचिरथ्याक्रमणादिना निमित्तेनापि न दुष्यति । तथा योषिन्मुखं संभोगकाले शुचि । 'स्त्रियश्च रतिसंसर्गे' इति स्मरणात् ॥ १८७ ॥ इदानीं भूशुद्धिमाह भूशुद्धिर्मार्जनाद्दाहारकालाद्गोक्रमणात्तथा । सेकादुल्लेखनाल्लेपागृहं मार्जनलेपनात् ॥ १८८ ॥ मार्जन्यां पांसुतृणादीनां प्रोत्सारणं मार्जनम् । दाहस्तृणकाष्ठायैः । कालो यावता कालेन लेपादिक्षयो भवति तावान् । गोक्रमणं गवां पादपरिघट्टनम् । सेकः क्षीरगोमूत्रगोमयवारिभिः प्रवर्षणं वा । उल्लेखनं तक्षणं खननं वा । लेपो गोमयादिभिः । एतैर्मार्जनादिभिः समस्तैयस्तैर्वा अमेध्यादिदुष्टा मलिना च भूमिः शुद्यति । तथाच देवलः-'यत्र प्रसूयते नारी म्रियते दह्यतेऽपि वा। चण्डालाध्युषितं यत्र यत्र विष्ठादिसंहतिः॥ एवं कश्मलभूयिष्ठा भूरमेध्या प्रकीर्तिता । श्वसूकरखरोष्ट्रादिसंस्पृष्टा दुष्टतां व्रजेत् ॥ अङ्गारतुषकेशास्थिभस्माधैर्मलिना भवेत् ॥' इत्यमेध्या दुष्टा मलिनेति शोध्यभूमेस्पैविध्यमभिधाय शु. द्धि विभागं दर्शयति-'पञ्चधा वा चतुर्धा वा भूरमेध्यापि शुद्ध्यति । दुष्टान्विता विधा द्वेधा शुध्यते मलिनकधा ॥' इति । यत्र मनुष्या दह्यन्ते यत्र चण्डालैरध्युषितं तत्र पञ्चभिर्दहनकालगोक्रमणसेकोल्लेखनैः शुद्धिः । यत्र मनुष्या जायन्ते यत्र म्रियन्ते यत्र चात्यन्तं विष्टादिसंहतिः तासां दाहवर्जितैस्तैरेव चतुर्भिः । श्वसूकरखरैश्चिरकालमध्युषितायाः गोक्रमणसेकोल्लेखनैस्त्रिभिः । उष्ट्रनामकुक्कुटादिभिश्विरकालमधिवासितायाः सेकोल्लेखनाभ्यां शुद्धिः। अङ्गारतुषकेशादिभिश्चिरकालमधिवासिताया उल्लेखनेन शुद्धिः । मार्जनानुलेपने तु सर्वत्र समुच्चीयते । एवं गृहं मार्जनलेपनाभ्यां शुद्ध्यति । गृहस्य पृथगुपादानं संमार्जनलेपनयोः प्रतिदिवसं प्राप्त्यर्थम् ॥ १८८ ॥ गोध्रातेऽन्ने तथा केशमक्षिकाकीटदूषिते । सलिलं भस मृद्वापि प्रक्षेप्तव्यं विशुद्धये ॥ १८९ ॥ गोध्राते गोनिःश्वासोपहतेऽन्ने अदनीयमात्रे । तथा केशमक्षिकाकीटैर्दूषिते । केशग्रहणं लोमादिप्राप्त्यर्थम् । कीटाः पिपीलिकादयः । उदकं भस्म मृद्वा यथासंभवं प्रक्षेप्तव्यं शुद्ध्यर्थम् । यत्तु गौतमेनोक्तम्-'नित्यमभोज्यं केशकीटावपअम्' इति तत्केशकीटादिभिः सह यत्पक्कं तद्विषयम् ॥ १८९ ॥ १ संगतिः ख. २ विशुद्ध्यति क. ३ तस्याः पञ्च क., तयोः पञ्च ख. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy