________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६
याज्ञवल्क्यस्मृतिः ।
[ आचाराध्यायः
स्कृतम् ॥' इति (५।११२) मनुस्मरणात् । अनुपस्कृतमखातपूरितम् । सलेपानां तु — " तैजसानां मणीनां च सर्वस्याश्ममयस्य च । भस्मनाद्भिर्मृदा चैव शुद्धिरुक्ता मनीषिभिः ॥' इति (५।१११) मनूक्तं द्रष्टव्यम् । मृद्भस्मनोरेककार्यत्वाद्विकल्पः । आपस्तु समुच्चीयन्ते । काकादिमुखोपघाते तु - ' कृष्णशकुनिमुखावमृष्टं पात्रं निर्लिखेत्, श्वापदमुखावमृष्टं पात्रं न प्रयुञ्जीत' इति द्रष्टव्यम् । एतच्च मार्जारादन्यत्र । - ' मार्जारश्चैव दव च मारुतश्च सदा शुचिः ।' इति मनुस्मरणात् ॥ १८२ ॥ १८३ ॥
यज्ञपात्रादीनां प्रोक्षणेन शुद्धिः
स्यशूर्पाऽजिनधान्यानां मुसलोलूखलाऽनसाम् ।
प्रोक्षणं संहतानां च बहूनां धान्यवाससाम् || १८४ ॥
स्फ्यो वज्रो यज्ञाङ्गम् । अनः शकटम् । शेषं प्रसिद्धम् । एतेषामुष्णेन वारिणा शुद्धिः । पुनरजिनग्रहणं यज्ञाङ्गाजिनप्रात्यर्थम् । संहतानामशुद्धिद्रव्यांरब्धावयविनां बहूनां धान्यानां वाससां च । वासोग्रहणमुक्तशुद्धीनामुपलक्षणार्थम् । उक्तशुद्धीनां धान्यवासःप्रभृतीनां बहूनां च राशीकृतानां प्रोक्षणेनैव शुद्धिः । बहुत्वं च स्पृष्टापेक्षया । एतदुक्तं भवति - यदा धान्यानि वस्त्रादीनि वा राशीकृतानि तन्त्र चण्डालादिस्पृष्टान्यल्पानि बहूनि चास्पृष्टानि तत्र स्पृष्टानामुक्तैव शुद्धिरितरेषां प्रोक्षणमिति । तथाच स्मृत्यन्तरम् - 'वस्त्र धान्यादिराशीनामेकदेशस्य दूषणे । तावन्मात्रं समुद्धृत्य शेषं प्रोक्षणमर्हति ॥' इति । यदा पुनः स्पृष्टानां बहुत्वं अस्पृष्टानां चाल्पत्वं तदा सर्वेषामेव क्षालनम् । यथाह मनुः (५।११८) - 'अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् । प्रक्षालनेन त्वल्पानामद्भिः शौचं विधीयते ॥' इति । स्पृष्टानामस्पृष्टानां च समत्वेऽपि प्रोक्षणमेव । बहूनां प्रोक्षणविधानेनाल्पानां क्षालने सिद्धे पुनरल्पानां क्षालनवचनस्य समेषु क्षालननिवृत्यर्थत्वात् । इयत्स्पृष्टमि यदस्पृष्टमित्यविवेके तु क्षालनमेव । पाक्षिकस्यापि दोषस्य परिहर्तव्यत्वात् अनेकपुरुषैर्धार्यमाणानां तु धान्यवासः प्रभृतीनां स्पृष्टानामस्पृटानां च प्रोक्षणमेवेति निबन्धकृतः ॥ १८४ ॥
निर्लेपानां स्पर्शमात्रदुष्टानां शुद्धिमुक्त्वेदानीं सलेपानां शुद्धिमाहतक्षणं दारुशृङ्गास्थां गोवालैः फलसंभुवाम् ।
मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि ॥ १८५ ॥
दारूणां मेषमहिषादिशृङ्गाणां करिवाराहशङ्खाद्यस्नाम् । अस्थिग्रहणेन दन्तानामपि ग्रहणम् । उच्छिष्टसे हादिभिर्लिप्तानां मृद्भस्मोदकादिभिरनपगतलेपानाम् । (मनु: ५। १२६ ) – ' यावन्नापैत्यमेध्याक्कादन्धो लेपश्च तत्कृतः । तावन्मृद्वारि चादेयं सर्वासु द्रव्यशुद्धिषु ॥' इति सामान्यतः शुद्धिविधानात् । तक्षणं तावन्मात्रावयवापनयनं शुद्धिः । फलसंभुवां बिल्वालाबुनालिकेरादि फलसंभूतानां पा
१ मुखावघृष्टं ख. २ द्रव्याणां बहूनां ख- ३ क्षालनवचननिवृ. ख.
For Private And Personal Use Only