________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [आचाराध्यायः तुण्डादयो नियुक्ता एव भक्ष्याः । 'पाठीनरोहितावाद्यौ नियुक्ती हव्यकव्ययोः । राजीवाः सिंहतुण्डाश्च सशल्काश्चैव सर्वशः ॥' इति (५।१६) मनुस्मरणात् । द्विजातिग्रहणं शूद्रव्युदासार्थम् ॥ १७७ ॥
अनर्चितं वृथामांसमित्यारभ्य द्विजातिधर्मानुक्त्वेदानीं चातुर्वर्ण्यधर्मानाह___ अतः शृणुध्वं मांसस्य विधिं भक्षणवर्जने ॥ १७८ ॥
मांसस्य प्रोक्षितादेर्भक्षणे तब्यतिरिक्तस्य च निषिद्धस्य वर्जने प्रोक्षितादिव्यतिरेकेण मांसं न भक्षयामीत्येवं संकल्परूपेण विधि सामश्रवःप्रभृतयः हे मुनयः शृणुध्वम् ॥ १७८ ॥ तत्र भक्षणे विधिं दर्शयति
प्राणात्यये तथा श्राद्धे प्रोक्षिते द्विजकाम्यया ।
देवान्पितॄन्समभ्यच्ये खादन्मांसं न दोषभाक् ॥ १७९ ॥ अन्नाभावेन व्याध्यमिभवेन वा मांसभक्षणमन्तरेण यदा प्राणबाधा भवति तदा मांसं नियमेन भक्षयेत् । 'सर्वत एवात्मानं गोपायेत्' इत्यात्मरक्षाविधानात् । तस्मादु ह न पुरायुषः स्वःकामी प्रेयात्' इति मरणनिषेधाश्च । तथा श्राद्धे मांसं निमनितो नियमेन भक्षयेत् । अभक्षणे दोषश्रवणात् ।-'यथाविधि नियुक्तस्तु यो मांसं नात्ति मानवः । स प्रेत्य पशुतां याति संभवानेकविंशतिम् ॥' इति मनुस्मरणात् ।प्रोक्षणाख्यश्रौतसंस्कारसंस्कृतस्य पशोर्यागार्थस्थानीषोमीयादेहुँतावशिष्टं मांसं प्रोक्षितं तद्भक्षयेत् । अभक्षणे यागानिष्पत्तेः । द्विजकाम्या ब्राह्मणभोजनार्थे देवपित्रर्थं च यत्साधितं तेन तानभ्यया॑वशिष्टं भक्ष. यन्न दोषभाग्भवति । एवं भृत्यभरणावशिष्टमपि ।-'यज्ञार्थ ब्राह्मणैर्वध्याः प्रशस्ता मृगपक्षिणः । भृत्यानां चैव वृत्त्यर्थमगस्त्यो ह्याचरम्पुरा ॥' इति (५।२२)मनुस्मरणात् । न दोषभागिति दोषाभावमात्रं वदता अतिथ्याद्यर्चनावशिष्टस्याभ्यनुज्ञामानं न प्रोक्षितादिवनियम इति दर्शितम् । एवमप्रतिषिद्धानामपि शशादीनां प्राणात्ययव्यतिरेकेणाभक्ष्यत्वावगमात् शूद्रस्यापि मांसप्रतिबद्धः सर्वविधिनिषेधाधिकारोऽवगम्यते ॥ १७९ ॥
इदानीं प्रोक्षिताव्यतिरिक्तस्य वृथामांसमित्यनेन प्रतिषिद्धस्य भक्षणे निन्दार्थवादमाह
वसेत्स नरके घोरे दिनानि पशुरोमभिः ।
संमितानि दुराचारो यो हन्त्यविधिना पशून् ॥१८० ॥ अविधिना देवताद्युद्देशमन्तरेण यः पशून्हन्ति स तस्य पशोर्यावन्ति रोमाणि तावन्ति दिनानि घोरे नरके वसेत् । हन्तीत्यष्टविधोऽपि घातको गृह्यते ।
१ नियुक्तस्यैव क. २ चातुर्वर्ण्य प्रत्याह क. ३ तस्मादिह ख. ४ अभक्षणाद्यागा ख. ५ह्यचरत्तथा ख.
For Private And Personal Use Only