________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भक्ष्याभक्ष्यप्रकरणम् ७] मिताक्षरासहिता।
५३
ऽकालप्ररूढानि पुष्पाणि च फलानि च । विकारवञ्च यत्किंचित्प्रयत्नेन विवर्जयेत् ॥' 'तथा वटप्लक्षाश्वत्थकपित्थनीपमातुलिङ्गफलानि वर्जयेत्' इति स्मरणात्। एतान्संधिनीक्षीरप्रभृतीननुक्रान्तान्कामतो भक्षयित्वा त्रिरात्रमुपवसेत् । अकामतस्त्वहोरात्रम् । शेषेषूपवसेदहः' इति मनुस्मरणात् । यत्पुनः शङ्खनोक्तम्'बलबलाकाहंसप्लवचक्रवाककारण्डवगृहचटककपोतपारावतपाण्डुशुकसारिकासारसटिट्टिभोलूककङ्करक्तपादचाषभासवायसकोकिलशावलिकुक्कुटहारीतभक्षणे द्वादशरात्रमनाहारः पिबेद्गोमूत्रयावकम्' इति तद्वहुकालाभ्यासे मतिपूर्वे समस्तभक्षणे वा वेदितव्यम् ॥ १७५ ॥
पलाण्डु विड्वराहं च छत्राकं ग्रामकुक्कुटम् ।
लशुनं गृञ्जनं चैव जग्ध्वा चान्द्रायणं चरेत् ॥ १७६ ॥ पलाण्डुः स्थूलकन्दनालो लशुनानुकारी । विवराहो ग्रामसूकरः। छत्राकं सर्पछत्रम् । ग्रामकुक्कुटः प्रसिद्धः । लशुनं रसोनं सूक्ष्मश्वेतकन्दनालम् । गृञ्जनं लशुनानुकारिलोहितसूक्ष्मकन्दम् । एतानि षट् सकृत्कामतो जग्ध्वा भक्षयित्वा चान्द्रायणं वक्ष्यमाणलक्षणं चरेत् । ग्रामकुक्कुटछत्राकयोः पूर्वप्रेतिषेधितयोरिहाभिधानं पलाण्ड्वादिसमानप्रायश्चित्तार्थम् । मतिपूर्व चिरतराभ्यासे तु 'छत्राकं विवराहं च लशुनं ग्रामक्कुटम् । पलाण्डं गृञ्जनं चैव मत्या जग्ध्वा पतेविजः' इति (५।१९) मनूक्तं । अमतिपूर्वाभ्यासे-'अमत्यैतानि षट् जग्ध्वा कृच्छ्रे सान्तपनं चरेत् । तृतीयाध्याये वक्ष्यमाणं यतिचान्द्रायणं वापि' इति द्रष्टव्यम् । अमतिपूर्वाभ्यासे तु शङ्खोक्तं-'लशुनपलाण्डुगृञ्जनविचराहग्रामकुक्कुटकुम्भीकभक्षणे द्वादशरात्रं पयः पिबेत्' इति ॥ १७६ ॥
भक्ष्याः पञ्चनखाः सेधागोधाकच्छपशल्लकाः। शशश्च मत्स्येष्वपि हि सिंहतुण्डकरोहिताः ॥ १७७ ॥
तथा पाठीनराजीवसशल्काश्च द्विजातिभिः। सेधा श्वावित् । गोधा कृकलासानुकारिणी महती । कच्छपः कूर्मः । शल्लकः शल्लकी । शशः प्रसिद्धः । पञ्चनखादीनां श्वमार्जारवानरादीनां मध्ये एते सेधादयो भक्ष्याः। चकारात्खगोऽपि । यथाह गौतमः-'पञ्चनखाः शशशल्लकश्वाविद्रोधाखङ्गकच्छपाः' इति । यथाह मनुरपि-'श्वाविधं शल्लक गोधां खगकू. मंशशांस्तथा । भक्ष्यान्पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः ॥' इति । यत्पुनर्वसिष्ठेन 'खड्ने तु विवदन्ते' इत्यभक्ष्यत्वमुक्तं तच्छ्राद्धादन्यत्र । 'खड्गमांसैर्भवेद्दत्तमक्षय्यं पितृकर्मणि' इति श्राद्धे फलश्रुतिदर्शनात् । तथा मत्स्यानां मध्ये सिंहतुण्डादयो भक्ष्याः । सिंहतुण्डः सिंहमुखः । रोहितो लोहितवर्णः। पाठीनश्चन्द्रकाख्यः । राजीवः पद्मवर्णः । सह शल्कैः शुक्त्याकारैर्वर्तत इति सशल्कः । एते च सिंह१ दघित्थ क. २ प्रतिषिद्धयो. क. ३ शल्यकाः क. ४ शालुकः शाली. ५ शल्यक..
For Private And Personal Use Only