________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
याज्ञवल्क्यस्मृतिः।
[आचाराध्यायः
सोदराः । भ्रातृभ्यः पृथगुपादानमजामिभगिनीप्राह्यर्थम् । एतैर्मात्रादिभिः सह चाकलहं परित्यज्य सर्वान्प्राजापत्यादीन् लोकान्प्रामोति ॥ १५७ ॥ १५८ ॥
पञ्च पिण्डाननुद्धृत्य न स्वायात्परवारिषु ।
स्नायानदीदेवखातहूदप्रस्रवणेषु च ॥ १५९ ॥ परवारिषु परसंबन्धिषु सर्वसत्वोद्देशेनात्यक्तेषु तडागादिषु पञ्च पिण्डाननुद्धृत्य न स्नायात् । अनेनात्मीयोत्सृष्टाभ्यनुज्ञातेषु पिण्डोद्वारमन्तरापि मानमभ्यनुज्ञातम् । नद्यादिषु कथं तह त्याह-मायान्नदीति । साक्षात्परम्परया वा समुद्रगाः स्रवन्त्यो नद्यः । देवखातं देव निर्मितं पुष्करादि । उदकप्रवाहाभिघातकृतसजलो महानिम्नप्रदेशो हृदः । पर्वताधुच्चप्रदेशात्प्रसृतमुदकं प्रस्रवणम् । एतेषु पञ्चपि. ण्डानुद्धरणे नैव मायात् । एतच्च नित्यस्नानविषयं सति संभवे (मनुः ४।२०३) -'नदीषु देवतखातेषु तडागेषु सरःसु च । स्नानं समाचरेन्नित्यं गतप्रस्रवणेषु च ॥' इति नित्यग्रहणात् । शौचार्थे तु यथासंभवं परवारिषु पञ्च पिण्डानुद्धरणेऽपि सर्वस्य न निषेधः ॥ १५९ ॥
परशय्यासनोद्यानगृहयानानि वर्जयेत् । . अदत्तान्यग्निहीनस्य नान्नमद्यादनापदि ॥ १६०॥ शय्या कशिपुः । आसनं पीठादि । उद्यानमाम्रादिवनम् । गृहं प्रसिद्धम् । यानं रथादि । परसंबन्धीन्येतान्यदत्तान्यननुज्ञातानि वर्जयेत् नोपभुञ्जीत । अभोज्यान्नान्याह-अग्निहीनस्येति । अग्निहीनस्य श्रौतस्मार्ताम्यधिकाररहितस्य शूद्रस्य प्रतिलोमजस्य च अधिकारवतोऽप्यग्निरहितस्थानमनापदि न भुञ्जीत प्रतिगृह्णीयाच्च । 'तस्मात्प्रशस्तानां स्वकर्मणा शुद्धजातीनां ब्राह्मणो भुञ्जीत प्रतिगृह्णीयाच' इति गौतमवचनात् ॥ १६० ॥
कदर्यवद्धचौराणां क्लीवरङ्गावतारिणाम् ।
वैणाभिशस्तवाधुष्यगणिकागणदीक्षिणाम् ।। १६१ ॥ कदर्यो लुब्धः-'भात्मानं धर्मकृत्यं च पुत्रदारांश्च पीडयेत् । लोभाद्यः पितरौ भृत्यान्स कदर्य इति स्मृतः ॥' इत्युक्तः । बद्धो निगडादिना वाचा संनिरुद्धश्च । चौरो ब्राह्मणसुवर्णव्यतिरिक्तपरस्वापहारी । क्लीबो नपुंसकः । रनावतारी नटचारणमल्लादिः । वेणुच्छेदजीवी वैणः । अभिशस्तः पतनीयैः कर्मभिर्युक्तः । वाधुष्यो निषिद्धवृद्ध्युपजीवी । गणिका पण्यस्त्री । गणदीक्षी बहुयाजकः । एतेषामन्नं नाश्रीयादित्यनुवर्तते ॥ १६ ॥
चिकित्सकातुरक्रुद्धपुंश्चलीमत्तविद्विषाम् ।।
क्रूरोग्रपतितत्रात्यदाम्भिकोच्छिष्टभोजिनाम् ॥ १६२ ॥ चिकित्सको भिषग्वृत्त्युपजीवी। आतुरो महारोगोपसृष्टः।-'वातव्याध्यश्मरी१ मन्तरेणापि क. २ वृत्त्युपजीवी क.
For Private And Personal Use Only